________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ अन्नपानविधिः
१०५०
चरक-संहिता। रोचनं दीपनं हृद्य बल्यं पित्ताविरोधि च । विबन्धघ्नं कफघ्नञ्च मधु लघ्वल्पमारुतम् ॥ सुरा समण्डा रुतोषणा यवानां वातपित्तला। गुर्वी जीयति विष्टभ्य श्लेष्मला तु मधूलिका ॥ दीपनं जरणीयञ्च हृत्पाण्डुक्रिमिरोगनुत् । ग्रहण्यशोहितं भेदि सौवीरकतुषोदकम् ॥
ऽनभिहितोऽप्युन्नेयः। रोचनमित्यादि। मध्विति । मधकृतं मदं माध्वीक रोचनादिगुणम् । सुरेत्यादि । सुरा पैष्टिकी, सा तु समण्डा रुक्षोष्णा ; पूर्वन्तु मण्डहीना सरा कृशानामित्यादिनोक्ता न ततः पुनरुक्ता। यवानां सरा यवकृता सुरा वातपित्तला । सुश्रुते च-पित्तलाल्पकफा रुक्षा यवैर्वातप्रकोपणी इति । गुर्वीत्यादि। मधूलिका सुरा मधूलकफलकृता गुर्ची विष्टभ्य च जीर्यति श्लेष्मला च। सश्रु तेऽपि-विष्टम्भिनी सुरा गुर्वी इलेप्मला तु मधूलिका। रुक्षा नातिकफा तृप्या पाचनी चाक्षिकी स्मृता। त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः। वक्कसो हृतसारखाद्विष्टम्भी वातकोपनः। सीधुमेधूकपुष्पोत्थो विदाह्य निवलप्रदः। रुक्षः कषायः कफहृद्वातपित्तप्रकोपणः। निदिशेद्रसतश्चान्यान् कन्दमूलफलासवान । अरिष्टो द्रव्यसंयोग-संस्कारादधिको गुणैः। बहुदोषहरश्चैव दोषाणां शमनश्च सः। दीपनः कफवातघ्नः सरः पित्ताविरोधनः। शूलाध्मानोदरप्लीह-ज्वराजीर्णाशेसां हितः। पिप्पल्यादि. कृतो गुल्म-कफरोगहरः स्मृतः । चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् । अरिष्टासवसीधूनां गुणान् कर्माणि चादिशेत् । बुद्धा यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् । इति।
दीपनमित्यादि। सौवीरं काञ्जिकं शुक्तकृतं तुपोदकं सतुषयवकृतं काञ्जिकम् । सुश्रते च-ग्रहण्यशौविकारघ्नं भेदि सौवीरकं तथा। तुषाम्बु दीपनं हृद्य हृत्पाण्डुक्रिमिरोगनुत्। इति ।
मित्यादि वक्ष्यमाणं, तद्वन्मृद्धीकक्षुरसाभ्यां मिलिताभ्यां कृत आसवो जयः। मध्विति मधु. प्रधान . आसवः। सुरा समण्डेति यवतण्डुलकृता बोद्धच्या, विरभ्येति विच्छेदः , मधूलको
For Private and Personal Use Only