________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः सूत्रस्थानम्।
१०४६ सुरासवस्तीव्रमदो वातन्नो वदनप्रियः। छेदी मध्वासवस्तीक्ष्णो मेरेयो मधुरो गुरुः ॥ धातक्यभिषुतो रुक्षो हृयो रोचनदीपनः ।
मार्दीक-*-वन्न च.त्युष्णो मृवीकेचरसासवः ॥ पाण्डुरोगेत्यादि। आक्षिकी विभीतकफलकृता सुरा। सश्रुते चआक्षिकः पाण्डुरोगनो व्रण्यः संग्राहको लघुः। कषायमधुरः सीधुः पित्तनोऽमृप्रसादनः॥ जाम्बवो बद्धनिषान्दस्तुवरो वातकोपनः॥ इति । सुरासव इत्यादि। मुरासवः सुरया द्रवकार्य यत्रासवे क्रियते स सुरासवः, सुतरां तीव्रमदः। सुश्रुते च-तीक्ष्णः सुरासवो हृयो मूत्रल: कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञ योऽनिलनाशनः ।। इति । छेदीत्यादि। मध्वासवो मधुकृत आसवः। सुश्रुते च--लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः । तिक्तः कषायः शोफन्नस्तीक्ष्णः स्वादुरवातकृत् ॥ तीक्ष्णः कषायो मदद दुर्नामकफगुल्महत् । क्रिमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः । इति । मध्वासवमैरेययोस्तीक्ष्णखवचनादिह तीक्ष्णशब्दो मध्वासर्वेऽन्वितः पुनराहत्तमैरेयेऽप्यन्वेतव्य इति । मैरेयो यथा--आसवस्य सुरायाश्च द्वयोरेकत्र भाजने। सन्धानं तद्विजानीयान्मरेयमुभयाश्रयम् । इति । धातक्यभिषुत इत्यादि। धातकीपुष्पकृत आसवो धातक्यभिपुतः। माकवदित्यादि। मृद्वीकाकृतमदं माकं तद्वन्नात्युष्णो मृद्वीकारससहितक्षुरसासवश्च भवति। मृद्वीकारसेक्षुरसयोमिलितयोरासवो मृवीकेक्षुरसासव इत्येक आसव इति न पुनरुक्तम् । माकमद्यगुण एतेन ख्यापितः । सुश्रु ते च–माकमविदाहिखान्मधुरान्वयतस्तथा । रक्तपित्तेऽपि सततं बुधैने प्रतिषिध्यते ॥ मधुरं तद्धि रुक्षश्च कषायानुरसं लघु । लघुपाकि सरं शोष-विषमज्वरनाशनम् ।। माकाल्पान्तरं किञ्चित् खाज्जूर चातकोपनम् । तदेव विशदं रुच्यं कफन कपणं लघु॥ इह खाज्ज रमद्यगुणोयः कथितेनेचरसेन क्रियते ; शीतरसिकस्तु शीतेक्षुरसकृतः। गौड़ो गुड़प्रकृतिकः। सुरासवो यत्र सुरयैव तोयकार्य क्रियते। मधूकपुष्पकृतो मध्वासवः। मैरेयलक्षणं यथा"आसवस्य सुरायाश्च द्वयोरेकत्र भाजने। सन्धानं तद विजानीयात् मैरेयमुभयाश्रयम्। इति। धातक्याऽभिषुतो धातकीफलासबः, माध्वीकं मधुप्रधानम्,-रोचनं दीपन
* माध्वीकवदिति पाठान्तरम्।
१३२
For Private and Personal Use Only