________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४८ चरक-संहिता।
[अन्नपानविधिः शोषार्थीग्रहणीदोष-पाण्डुरोगारुचिचरान् । हनयरिष्टः कफकृतान् रोगान् दीपनपाचनः * ॥ मुखप्रियः सुखमदः सुगन्धिर्वस्तिदोषनुत् । जरणीयः परिणतो हृयो वण्यश्च शार्करः॥ रोचनो दीपनो हृद्यः शोषशोफार्शसां हितः। स्नेहश्लेष्मविकारघ्नो बल्यः पक्करसो मतः ॥ जरणीयो विबन्धनः स्वरवर्णविशोधनः । कर्षणः शीतरसिको हितः शोफोदरार्शसाम् ।। सृष्टभिन्नशकद्वातो गौडस्तपणदीपनः ।
पाण्डुरोगबणहिता दोपनी चानिकी मता ॥ शोथहत् ॥अपरश्च-छद्दारोचकहत्कुक्षि-शूलतोदप्रमद्दनी। प्रसन्ना कफवाताझैविबन्धानाहनाशिनी ॥ इति । शोषेत्यादि । ओषधिक्काथादिः सन्धानेन काले जातरस एवारिष्टस्तस्य सामान्यत एष गुणसंग्रहः। शोपादीन कफकृतान् रोगान् हन्ति दीपनः पाचनश्च। इति । तद्विशेषमाह। मुखप्रिय इत्यादि। शाकरोऽरिष्टः मुखप्रियादिगुणः। सश्र ते च--शाकेरो मधुरो रुच्यो दीपनो वस्तिशोधनः। वातघ्नो मधुरः पाके हृद्य इन्द्रियवोधनः॥ तद्वत् पकरसः सीधुबलवणेकरः परः। शोफनो दीपनो हृयो रुच्यः श्लेष्माशंसां हितः ॥ इति । अस्य पक्करसस्य गुणमाह--रोचन इत्यादि। पक्करसो नाम सीधुः इक्षुरसं पक्त्वा कालेन जातरसः सीधभवति । स च रोचनादिगुणः। जरणीय इत्यादि। शीतरसिक इक्षोः शीतेनापक्वेन रसेन नि तोऽरिष्टः जरणीयादिगुणः। कर्षणः शरीरस्य। सुश्रुते च–कषणः शीतरसिकः श्वयथूदरनाशनः। वर्णकृज्जरणः स्वय्यो विवन्धन्नोऽशंसां हितः॥ इति । सृष्टत्यादि। गौड़ इति गुड़कृत एवारिष्टः। सुश्रुते च-दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः। कपायो मधरः सीधगोड़ः पाचनदीपनः॥ तसिः। सुरा अनुद्ध तमण्डा, मदिरा तु सुरामण्डः, जगलो भक्तकिण्वकृता सुरा, अरिष्ट औपधक्काथसम्पादितो वक्ष्यमाणो दन्त्यभयारिष्टादिः, शार्करः शर्कराप्रकृतिक आसवः, पक्करसो - दीपनपाचनेत्यन्त्र रोचनदीपन इति क्वचित् पाठः ।
For Private and Personal Use Only