________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः सूत्रस्थानम् ।
१०४७ प्रकृत्या मद्यमम्लोष्णमम्लञ्चोक्तं विपाकतः। सर्व सामान्यतस्तस्य विशेष उपदेच्यते ॥ कृशानां सक्तमूत्राणां ग्रहण्यशोविकारिणाम् । सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च ॥ हिकाश्वासप्रतिश्याय-कासव♚ग्रहास्चौ। छद्दयानाहविबन्धेषु वातघ्नी मदिरा हिता॥ शूलप्रवाहिकाटोप-कफवातार्शसां हितः। जगलो ग्राहिरुक्षोष्णः शोथघ्नो भुक्तपाचनः ॥ गङ्गाधरः-अथान्नतदुपकरणानन्तरं पानं वक्तु क्रमिकखान्मद्यवर्ग उच्यतेप्रकृत्येत्यादि। प्रकृत्येति स्वभावात् । सब मय सामान्यतो रसेऽम्लमुष्णन्तु वीय्ये विपाकतश्चामलमुक्तम् । तस्य मद्यस्य विशेष उपदेक्ष्यते। यद्यपि रसपाकयोरम्लखे वीय्यत उष्णं लभ्यते तथापि पुनरुष्णमिति वचनेन तीक्ष्णखादयो गुणाः ख्यापिताः। सुश्र ते चोक्तं-सव्व पित्तकरं मद्यमम्लं दीपनरोचनम् । भेदनं करुवातघ्नं हृद्य वस्तिविशोधनम्। पाके लघु विदाहरणं तीक्ष्णमिन्द्रियवोधनम् । विकाशि सृष्टविण्मूत्रं शृणु तस्य विशेषणम्॥ इति । कृशानामित्यादि। सुरा पैष्टिकी अनुभूतमण्डा कृशादीनां प्रशस्ता, स्तन्यादिक्षयेषु च प्रशस्ता। सुश्रुते च-कासाशौग्रहणादोष-मूत्राघातानिलापहा। स्तन्यरक्तक्षयहिता सराहणदीपनी ॥ इति । हिक्केत्यादि । मदिरा श्वेतवर्णा सुरा हिकादिषु हिता वातघ्नी च। सुश्रुते चकासाशीग्रहणीश्वास-प्रतिशप्रायविनाशिनी। श्वेता मूत्रकफस्तन्य रक्तमांसकरी सुरा ॥ इति । शूलेत्यादि। जगलो भक्तकिण्वभूता सरा शूलादीनां हिता। शोथनः ग्राही च वीय्यतो रुक्षश्चोष्णश्च भक्तपाचनश्च । सुश्रुते चग्राहुाष्णो जगलः पक्ता रुक्षस्तृट्कफशाफहृत् । हृयः प्रवाहिकाटोप-दुनामानिल
चक्रपाणि:-अन्नमभिधाय पानं वक्तव्यम्. अत्रापि पानप्रधानमपि पानीयमुल्लङ्घय हर्षादि. कर्तृत्वात् जनानां मुख्यपेयत्वाच्च मद्यमाह। प्रकृत्येति स्वभावात्, यद्यपि च मद्य पीयमाने नाग्लरसता प्रतीयते व्यक्ता, तथापि दन्तहर्पमुखस्रावाद्यम्लकार्यकर्तृत्वादभ्लमेव, वचनं हि"अम्लानि चाम्लप्रभावाणि चाम्लमेव कृत्वोपदेक्ष्यामः” इति, तेन अग्लप्रभावस्याम्लरसत्वमेव, अत एवोक्तम् - "सर्वेषां मद्यमग्लानामुपयुपरि वर्त्तते' इति ; विपाकत इति तृतीयायां
For Private and Personal Use Only