________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। अन्नपानविधिः
१०४४
चरक-संहिता। बालं दोषहरं वृद्धं त्रिदोषं मास्तापहम् । स्निग्धस्विन्नं विशुष्कञ्च मूलकं कफवातजित् ॥ हिकाकासविश्वास-पावशूलविनाशनः । पित्तकृत् कफवातनः सुरसः पूतिगन्धहा ॥ यमानी चार्जकश्चैव शिग्र शालेयतृष्टकम् * । हृद्यान्यास्वादनीयानि पित्तमुत्क्लेशयन्ति तु॥
कफापहः । सुरभिदापनो रुच्यो मुखवशद्यकारकः ॥ इति। बालमित्यादि । मूलकं बालं दोपहरं, वृद्धं मूलकं त्रिदोषं, तदेव स्निग्धं स्नेहेन पक्वं खिन्नं मारुतापहम् । तदेव विशुष्क कफवातजित् । सुश्रुते च-सव्वदोषहरा लध्वी कण्ठया मूलकपोतिका । महत् तद् गुरु विष्टम्भि तीक्ष्णमाम त्रिदोषकृत् ॥ तदेव स्निग्धखिन्नन्तु पित्तनुत् कफवातजित् । त्रिदोषशमनं शुष्कं विषदोपहरं लघु॥ विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ॥ इति। हिक्केत्यादि। सुरसः पणासः हिक्कादिनाशनादिगुणः। सुश्रुते-कफानिलविषश्वास-कासदोगेन्ध्यनाशनः। पित्तकृत् पाश्वशूलघ्नः सुरसः समुदाहृतः । यमानीत्यादि। यमानी वनयमानी। आज्जेकः श्वेतपर्णासः। शिग्र वीजम्, शालेयं चाणक्यमूलं मगधे प्रसिद्धम्। तृष्टकं राजिका। एतानि हृद्यादीनि । सुश्रुते चकफघ्ना लघवो रुक्षाः स्निग्धोष्णाः पित्तवर्द्धनाः। कटुपाकरसाश्चैव सुरसाज्जैकभूस्तृणाः। कटुः सक्षारो मधुरः शिग्र स्तिक्तोऽथ सुगन्धि। बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम् ; तन्त्रान्तरवचनं हि-“यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि। भवन्ति तावाला दीपनानि पित्तानिलश्लेष्महराणि चैव ॥" वृद्धं त्रिदोषमिति, तदेव प्रवृद्धम, एनामेव मूलकावस्थामभिप्रत्य चोक्त,-'मूलक कन्दानामपथ्यत्वे प्रकृष्टतमम" इति । मारुतापहं स्निग्धासमिति सामान्येन बाल वृद्धञ्च ; “शुष्काणि कफवातनान्येतानि इति वक्ष्यमाणग्रन्थेनैव शुकमूलकरय कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकटप्राप्त्यर्थम्।
पूतिगन्धहेति शरीरस्य तथा व्यञ्जनान्नमांसस्य पूतिगन्धतां हन्ति। अर्जकः श्वेतपर्णासः, शिग्र विटपं शोभाञ्जनम् ; शालेयश्चाणक्यमूलं मरौ प्रसिद्धम्, किंवा शालेयमिति मिस्तेयं पाटकप्रसिद्धम्, वचनं हि-"चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः” इति ; मृटकं
* मृष्टकमिति चक्रः।
For Private and Personal Use Only