________________
Shri Mahavir Jain Aradhana Kendra
२७३ अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
जलपिप्पलिगण्डीर श्रृङ्गवेर्य्यथ तुम्बुरु | तो करुनाणि कफवातहराणि च ॥ पुस्त्वन्नः कटुरुक्षोणो भूस्तृणो रक्तशोधनः । खराश्वा कफवातनी वस्तिरोगरुजापहा ॥ धान्यकञ्च । जगन्धा च सुमुखाश्चेति रोचनाः । सुगन्धा नातिकटुका दापानुत्क्लेदयन्ति च ॥ ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः । वेदनेऽभ्यवहारे च योजयेत् तमपित्तिनाम् ॥
For Private and Personal Use Only
१०४५
पित्तलः । मधुशिग्रः सरस्तिक्तः शोफघ्नो दीपनः कटुः । जलेत्यादि । जले पिप्पल्याकारा जलपिप्पली | गण्डीरः समष्टीला, स च शुक्लो रक्तश्चेति द्विविधः, तत्र शुक्लो जलजः शाकवर्ग पठितोऽकटुत्वात् । कटुत्वात् तु रक्तोऽत्र हरितव पठित इति न द्विरुक्तः । शृङ्गवेरी शृङ्गवेराकृतिः । उक्तञ्च-शृङ्गवेरवदाकृत्या शृङ्गवेरीति भाष्यते । कुस्तुम्बुरुसमाकृत्या तुम्बुरुणि वदन्ति हि । पुस्खेत्यादि । भूस्तृणो गन्धतृणः । पुंस्त्वघ्नः । खराश्वेत्यादि । खराश्वा पारसीययमानी खराशिनीति लोके । धान्यकमित्यादि । धान्यकं कुस्तुम्बुरुः । सश्रुते च – आर्द्रा कुस्तुम्बुरुः कुर्य्यात् स्वादुसौगन्ध्यहृद्यताम् । सा शुष्का मधूरा पाके स्निग्धा तृड्दाहनाशिनी । दोषघ्नी कटुका किञ्चित्तिक्ता स्रोतोविशोधनी । इति । अजगन्धा क्षेत्रयमानी । सुमुखा पर्णासभेदः । सुश्रुते च -- कफानिलविषश्वास- कासदौर्गन्ध्यनाशनः । पित्तकृत् पाश्वेशूलघ्नः सुरसः समुदाहृतः । तद्वत् तु सुमुखो ज्ञ यो विशेषाद् गरनाशनः ॥ इति । एवं तत्रैव चोक्तं- तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्तानिवर्द्धनम् । कटु इलेष्मानिलहरं गन्धाढ्य जीरकद्वयम् । कारवी करवी तद्वद्विशे या सोपकुञ्चिका । भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता । इति । ग्राहीत्यादि । गृञ्जनको गाँजोर इति लोके । तं गृञ्जनकमपित्तिनां स्वेदनेऽभ्यवहारे च योजयेन तु पित्चिनाम् । राजिका । गण्डीरो द्विविधो रक्तः शुक्कुश्च तत्र यो रक्तः, स कटुत्वेन हरितवर्गे पठ्यते, यस्तु शुक्को जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः ; जलपिप्पली जले पिप्पल्याकारा स्यात्; शृङ्गवेरी गोजिह्निका, किंवा शृङ्गवेरी आद्रका यदुक्त - " शृङ्गवेरवदाकृत्या शृङ्गवेरीति भाषिता । कुस्तुम्बुरुसमाकृत्या तुम्बुरुणि वदन्ति च ॥" भूस्तृणो गन्धतृणः, खरादवा