________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श भध्यायः सूत्रस्थानम् ।
१०४३ कषायमधुराम्लानि वातलानि गुरूणि च । भल्लातकान्यग्निसमं* त्वङ्मांसं स्वादुशीतलम् । पञ्चमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः॥ ३२॥
इति फलवर्गः । ५। रोचनं दीपनं वृष्यभाद्र कं विश्वभेषजम् । वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते ॥ रोचनो दीपनस्तीक्ष्णः सुगन्धिमुखबोधनः ।
जम्बीरः कफवातघ्नः क्रिमिहा भुक्तपाचनः॥ फलानि मधुराणीत्यादीनि प्रभावात् अम्लपाकीनि। कषायेत्यादि । भल्लातकानि फलानि कषायमधुराम्लानि पकान्येव । तेषां फलानां खङ्मांसं लग्गतं शस्यमग्निसमं स्वादु च, शीतलन्तु वीर्येण, स्पर्श तु वह्निसमं दाहकरमिति । वर्ग समापयति-पञ्चम इत्यादि। प्रायोपयोगिक एव न तु कृत्स्नः ॥३॥३२॥
इति पञ्चमः फलवर्गः।५। गङ्गाधरः-क्रमिकखाद्धरितवग उच्यते-रोचनमित्यादि । आद्रकम् अशुष्क विश्वभेषजमिति, तदेव रोचनादिगुणम्। तस्याद्रेकस्य रसो वातश्लेष्मविवन्धेषपदिश्यते। सुश्रुते तु–कफानिलहरं स्वयं विवन्धानाहशूलनुत् । कटूष्णं रोचनं हृद्य वृष्यञ्चैवानेकं स्मृतम् ॥ शुष्कस्य गुण आहारसंयोगवर्गे वक्ष्यते। रोचन इत्यादि। जम्बीरः पर्णासभेदः पुंस्त्वात् । कफवातघ्नः क्रिमिहा भुक्तपाचनश्च । सुश्रुते च-जम्बीरः पाचनस्तीक्ष्णः क्रिमिवातफलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः। आभिकी लता तस्याः फलमाक्षिकम्। अनुपाकि अनुया इति ख्याता। अग्निसममिति स्फोटादिजनकरवात् ॥ ३०-३२॥
[इति फलवर्गः।५।] चक्रपाणिः- हरितानामप्याद्रकादीनां फलवदग्निपाकमन्तरेण भोजनस्य प्राक् पश्चाञ्चोपयोगात् फलमनु हरितकथनं, फलेषु पश्चादमिधानं हरितस्य तृप्त्यनाधायकत्वात् । आकमिति विशेपणं शुष्ठीच्यावृत्त्यर्थम्, शुष्ठीगुणश्चाहारसंयोगवर्ग भविष्यति ; जम्बीरः पर्णासभेदः, जम्वीरफल
* भल्लातकास्थ्यग्निसममिति पाठान्तरम।
For Private and Personal Use Only