________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४२
चरक-संहिता। [अन्नपानविधिः गुरूष्णं मधुरं रुकं * केशनञ्च शमीफलम् । विष्टम्भयति कारजं पित्तश्लेष्माविरोधि च ॥
आम्रातकं दन्तशठमम्लसकरमईकम् । रक्तपित्तकर विद्यादेरावतकमेव च ॥ वातन दीपनञ्चैव वार्ताक कटु तिक्तकम् । वातलं कफपित्तन विद्यात् पर्कटकीफलम् ॥ पित्तश्लेष्मन्नमम्लञ्च वातलञ्चाक्षिकीफलम् । मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च ।।
अश्वत्थोडुम्बरप्लक्ष-न्यग्रोधानां फलानि च ॥ ३१ ॥ श्लेष्मलमित्यादि। अकोठफलम् आखरोटविशेषः। गुरूष्णमित्यादि । शमीफलं पक रुक्षं गुरूष्णश्च । केशघ्नं केशानामुपघातकरम् । विष्टम्भयती. त्यादि। कारन कष्टकिफलमिति कश्चित्, करमईफलमित्यन्ये। पित्त. श्लेष्मविरोधिखं प्रभावात्। आम्रातकमित्यादि। आम्रातकं द्विविधं मधुरश्वाम्लञ्च । तयोर्मधुरं पूवेमुक्तं मधुरामलमुच्यते। दन्तशठं जम्बीरफलं कागजीतिख्यातम् । करमदम् अम्लकरञ्जफलमेरावतकमम्लनागरङ्गफलश्चाम्लं रक्तपित्तकरं विद्यात् । सुश्रते च-आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवद्धनम् । तृष्णाशुलकफोत्क्लेश-च्छबिश्वासनिवारणम् ॥ वातश्लेष्मविबन्धनं जम्बीर गुरु पित्तकृत् । अम्लं तृष्णापहं रुच्यं पित्तकर करमद्देकम् ॥ वातघ्नमित्यादि। वार्ताकं दक्षिणापथे फलवत् खाद्यते । तच्च कटु तिक्तकम् । वातलमित्यादि। पकेटकीफलं पकेटस्य पक्क फलम्। पित्तश्लेष्मन्नमित्यादि। अक्षिकी लता तस्याः फलम् आक्षिकं पक फलम् । मधुराणीत्यादि । अश्वत्थादीनां पकानि
दन्तशठो जम्बीरः, केचिदम्लोटं वदन्ति। इह आम्रातकमम्ल ग्राह्यम् ; पूर्वन्तु मधुरमानातकमुक्तम् ; करमई द्विविधं ग्रामजं वनजञ्च, ऐरावतमम्लातकम्, किंवा, नागरङ्गम्। वार्ताक दक्षिणापथे फलवत् खाद्यते, यद्गोष्टवार्ताकसंज्ञक, तस्येह गुणः ; किंवा * रुक्षमित्यत्र शीतमिति वा पाठः । + मधुराण्यनुपाकीनि वातपित्तहराणि च इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only