SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । सुगन्धि मधुरं साम्लं विशदं भक्तरोचनम् । * दुर्जरं वातशमनं नागरङ्गफलं गुरु ॥ वातामाभिषुकानोड़-मुकूलकनिकोचकाः। गुरूपणस्निग्धमधुराः सोरुमाणा बलप्रदाः॥ वातना वृहणा वृष्याः कफपित्ताभिवर्द्धनाः। पियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः ॥ श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु । श्लेष्मलं गुरु विष्टम्भि चाकोठफलमग्निजित् ॥ नाशनम्। दीपनं लघु संग्राहि गुल्मार्शोघ्नन्तु केशरम् । शूलाजीणविवन्धेषु मन्दाग्नौ कफमारुते। अरुचौ च विशेषेण रसस्तस्योपदिश्यते। इति । सुगन्धीत्यादि। नागरङ्ग फलं कमलालिम्पाकं साम्लं मधुरं सुगन्धि च विशदश्च। सुश्रुते ....अम्लं समधुरं हृद्य विशदं भक्तरोचनम् । वातघ्नं दुज्जेरं प्रोक्तं नारङ्गस्य फलं गुरु ॥ इति । वातामेत्यादि। वातामस्य फलम्, अभिषुकस्य अभिषुकनाम्ना ख्यातस्य फलम् । आक्षोडस्य आखरोट इति ख्यातस्य फलं, मुकूलकस्य फलं, निकोचकस्य पव्वेतीयाखरोटस्य फलम्, उरुमाणस्य च फलम् । फलरूपा एते वातामादयो गुरूष्णस्निग्धमधुरा इत्यादिगुणाः। सुश्रुते च-चातामाक्षोड़ाभिषुकनिचलपिचुनिकोचकोरुमाणप्रभृतीनि। पित्तश्लेष्मकराण्याहुः स्निग्धोष्णानि गुरूणि च। बृहणान्यनिलघ्नानि बल्यानि मधुराणि च॥ इति । पियालमित्यादि । पियालस्य फलं द्विविध, राजादनं पियालश्च । तत्र राजादनगुणा उक्ताः। पियालस्य वचनमिदम् । एषां वातामादीनाम् औष्ण्यं विना शेषैर्गुणैः सदृशं पियालफलं विद्यात् । सुश्रुते-पियालमज्जा मधुरो वृष्यः पित्तानिलापहः । इति । श्लेष्मलमित्यादि । श्लेष्मातकं शेलुफलम् । गुरु, किंवा, शूले रुचावित्युक्तकेशरगुणविपरीतम्। वातामादय औत्तरापथिकाः। पियालोऽयं मगधप्रसिद्धः। * मधुरं कश्चिदम्लञ्च हृद्य भक्तप्ररोचनमिति चक्रधृतः पाठः । १३१ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy