________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
( अन्नपानविधिः रुक्षाम्लं दाडिमं यत् तु तत् पित्तानिलकोपनम् । * वृक्षाम्लं ग्राहि रुक्षोणं वातश्लेष्मणि शस्यते ॥ अम्लीकायाः फलं पक्कं तस्माञ्चाल्पान्तरं गुणैः । गुणैस्तैरेव संयुक्तं भेदनन्त्वम्लवेतसम् ॥ शलेऽरुचौ विबन्धे च मन्देऽग्नौ मविप्नवे । हिकाश्वासे च कासे च छर्दिवर्चागदेषु च ॥ वातश्लेष्मसमुत्थेषु सर्वजेषूपदिश्यते ।
केशरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा ॥ + दाडिमं नातिपित्तलम् । दीपनीयं रुचिकर हृद्य वच्चौविवन्धनम् ॥ द्विविध तत् तु विशे यं मधुरञ्चाम्लमेव च । त्रिदोषघ्नश्च मधुरमम्लं वातकफापहम् ॥इति । वृक्षाम्लमित्यादि । वृक्षाम्लं तिन्तिडीकं, सुश्रुते च-वातापहं तिन्तिडीकमामं पित्तबलाशकृत् । ग्राहाणं दीपनं रुच्यं सम्पर्क कफवातनुत् ॥ अम्लीकाया इत्यादि। द्विविधं तिन्तिडीकं वृक्षाम्लमम्लीका च। तत्र यस्य वृक्षोऽप्यम्लः स वृक्षाम्लः, यस्य फलमम्लं साम्लीका। तस्याः पकं फलं तस्मात् किश्चिद्गुणैरन्तरं भिन्नम्। तस्या आमफलमपि तिन्तिड़ीकामफलवत् । तदुक्तं सुश्रुते--अम्लीकायाः फलं पक तद्वद् भेदि तु केवलम् । तस्मादल्पान्तरगुणं कोपाम्रफलमुच्यते। इति । गुणरित्यादि। वृक्षाम्लस्य गुणै रुक्षोष्णवातश्लेष्महरखैः संयुक्तं ग्राहिलवज्ज भेदनश्चाम्लवेतसं थैकर इति ख्यातम् ।शूले रुचावित्यादि । मद्यविप्लवे मद्यविक्षेप, शूलादिवातश्लेष्मसमुत्थ. सम्बंगदेषु मातुलुङ्गस्य केशरमुपदिश्यते, लघु चोपदिश्यते। शेष केशरातिरिक्तं खगादिकमतोऽन्यथा गुणान्तरमुपदिश्यते। तद्यथा सुश्रुते-लध्वम्लं दीपनं हृद्यमातुलुङ्गमुदाहतम् । खक तिक्ता दुज्जेरा तस्य वातक्रिमिकफापहा । स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित्। मेध्यं शूलानिलच्छद्दि-कफारोचक
वृक्षाग्नं महाकम्, अम्लीका तिन्तिड़ी। शेषमिति त्वङ्मासम्, अतोऽन्यथेति * "मधुरं पित्तनुत् तेषां पूर्व दाडिममुत्तमम" इत्यधिकः पाठः कचित् । + इतः परं श्लोकोऽयमादर्शान्तरे दृश्यते---
रोचनो दीपनो हृद्यः सुगान्धस्त्वगविवर्जितः । कच्चू र कफवातनः श्वासहिकार्शसां हित:॥
For Private and Personal Use Only