________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अज्यायः] सूत्रस्थानम् ।
१०३६ कषायविशदत्वाच सौगन्ध्याच्च रुचिप्रदम् । अवदंशक्षम हृद्य * वातल लवनीफलम् ॥ नीपं शतारुकं पीलु तृणशून्यं विकङ्कतम् । प्राचीनामलकञ्चैव दोषन्न गरहारि च ॥ ऐङ्ग दं तिक्तमधुरं स्निग्धोषणं कफवातजित् । तिन्दुकं कफपित्तनं कषायं मधुरं लघु ॥ विद्यादामलके सर्वान् रसान लवणवर्जितान् । स्वेदमेदककोत्क्लेद-पित्तरोगविनाशनम् ॥+ अम्लं कषायमधुरं वातन ग्राहि दीपनम्।
स्निग्धोषणं दाडिमं हृय करूपित्ताविरोधि च॥ कपायेत्यादि। लवनीफलम् कषाय विशदसौगन्ध्यारुचिकरम्। अवदेशक्षम भोज्यद्रव्यान्तरम्रक्षणे रोचकखक्षमम् । नोयालीति ख्यातम् । नीपमित्यादि। नीपं पक्वं कदम्बफलम्। शतारुकं स्वनामख्यातम् । पीलुफलम् गुड़फलम्। तृणशून्यं केतकीफलम् । विककृतं वइच इति ख्यातम् । प्राचीनत्यादि। प्राचीनामलकं पानीयामलकमलम्। ऐङ्गदमित्यादि। ऐगदं पुत्रजीवकलम्। तिन्दुकं तिंदु इति ख्यातम् । विद्यादित्यादि । लवणवज्जेितान् पञ्च रसान्। तदामलकं स्वेदादिनाशनम् । अम्लमित्यादि। द्विधा दाडिमं मधुरफलमेकमपरमम्लफलम् । तत्राम्लावरं कपायमधुरमम्लप्रवरं कषायमधुरम् । स्निग्धोणमित्यादिगुणम्। सुश्रुते च--कषायानुरसं तेषां धन्वनभेदः। राजादनं क्षीरि। अवदंशक्षममिति लवलीफलं प्राश्य व्यान्तरे रुचिभवति । नीपं कदम्बकम्, शतारुकफलं शरका इति ख्यातम, पीलु औत्तरापथिकम, तृणशून्यं केतकीफलम्, प्राचीनामलकं पानीयामलकम्। ईङ्ग दं पत्रजीवकफलम। तिन्दुक केन्दः। दाडिमगुणे कफपित्ताविरोधोत्यम्लदाडिमं पित्ताविरोधि, मधुरन्तु कफाविरोधि, तेन श्रिदोषहरत्वमस्योपपन्नम्, यदुक्त सुश्रुते-द्विविधं तत् तु विज्ञेयं मधुरञ्चाम्लमेव च । त्रिदोषनन्तु मधुरमम्लं वातकफापहम् ॥” इति ।
* रुक्षमिति क्वचित् पाठः। __+ इतः परं श्लोकोऽयं प्रन्थान्तरेषु दृश्यतेरु स्वाद कायाम्लं कफपित्तहरं परम । रसामृङमांसमे दोजान् दोषान् हन्ति विभीतकम ॥
For Private and Personal Use Only