________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri ka
Acharya Shri Kailassagarsuri Gyanmandir
१०३४ चरक-संहिता।
[ भनपानविधिः अम्लीकायाः स्मृतः कन्दो ग्रहण्योंहितो लघुः । नात्युष्णः कफवातनो ग्राही शस्तो मदात्यये ॥ त्रिदोषं बद्धविणमूत्र सार्षपं शाकमुच्यते। तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम् ॥ सर्पच्छत्रकवास्तु बह्वयोऽन्याश्छत्रजातयः । शीताः पीनसकतं पश्च मधुरा गुव्य एव च ॥ चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः ॥ २६ ॥
। इति शाकवर्गः। ४। अम्लीकाया इत्यादि। अम्लीकाया अम्लाकस्य कन्दः। त्रिदोषमित्यादि। सापं शाकं सर्षपपत्रम् । तद्वदित्यादि। पिण्डालुकः पिण्डाकारः कन्दः तं, तद्वत् त्रिदोषं बद्धविण्मूत्रं विद्यात् । कन्दवाच्च मुखप्रियं विद्यात् । अत्रापरेषां कन्दानां गुणाः उन्नेयाः। तद यथा सुश्र ते---स्थूलशुरणमाणकप्रभृतयः कन्दाः इपत्कषायाः कटुका रुक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च। माणकं स्वादु शीतञ्च गुरु चापि प्रकीतितम् । स्थूलकन्दस्तु नात्युप्णः शृरणो गुदकीलहा ॥ कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः। कषायाः पित्तशमनाः विपाके मधुरा हिमाः॥ वाराहकन्दः श्लेष्मन्नः कटुको रसपाकतः। मेहकुष्ठक्रिमिहरो बल्यो वृप्यो रसायनः॥ इति ।
सर्पच्छत्रकेत्यादि। सर्पच्छत्रकं मृतसर्पदेहभूतभूभागे जातमुद्भिज्ज छत्राकृतिकं छत्रं, सपैच्छत्रकं वज्जयिखा अन्या बह्वाश्छत्रजातयः उद्भिज्जाः शीताः पीनसकत्राश्च मधुराश्च गुव्वाश्चेति । सुश्र ते च-उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि। तत्र पलालजातं मधुरं मघर विपाकं रुक्षं दोषप्रशमनश्च। इक्षुजं मधुरं कपायानुरसं कटुकं शीतलञ्च। तद्वदेवोष्णं कन्दः। मुजातक औत्तरापथिककन्दः। अम्लीका स्वल्पविटपा प्रायः कामरूपादौ भवति । सर्पच्छन्नं सर्पफणाकारं छत्रकम् ; अन्याइछवजातयः करीषपलालादिजा बहुला ज्ञेयाः। पत्रकन्दफलाश्रय इति प्राधान्येन, तेन पुष्पाश्रयत्वमपि शाकवर्गस्य ज्ञेयम् ॥ २८१२९ ॥
। इति शाकवर्गः। ४।
For Private and Personal Use Only