________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ अध्यायः सूत्रस्थानम् ।
१०३३ तरूटं विसशालूकं क्रौञ्चादनकसेरुकम् । शृङ्गाटकाङ्कलोड्यञ्च गुरु विष्टम्भि शीतलम् ॥ कुमुदोत्पलनालाश्च सपुष्पाः सफलाः स्मृताः। शीताः स्वादुकषायाश्च कफमारुतकोपनाः ॥ * बल्यः शीतो गुरुः स्निग्धस्तर्पणो वृहणात्मकः । वातपित्तहरः स्वादुवृ ष्यो मुञ्जातकः परः॥ जीवनो वंहणो वृष्यः कण्ठ्यः शस्तो रसायने।
विदारीकन्दो बल्यश्च मूत्रलः स्वादुशीतलः॥ तरूटविसेत्यादि। तरूटं कहारकन्दः। विसं पद्मादीनां क्षुद्रमृणालम् । शालूकं पद्मादीनां कन्दः। क्रोश्चादनं घेञ्चुलिका। कसेरुकं द्विविधंक्षुद्रं चिञ्चोटकं, वृहत् तु राजकशेरुकम्। शृङ्गाटकं पानीयफलम् । अङ्कलोड्य हस्त्रोत्पलकन्दः। सर्व गुरु विष्टम्भि शीतलम् । कुमुदत्यादि। कुमुदोत्पलयोनालाः पुष्पाणि च फलानि च शीतादिगुणानि । बल्य इत्यादि । मुञ्जातक 'औत्तरापथिकः कन्दः। वल्य इत्यादिगुणः । जीवन इत्यादि। विदारीकन्दो जीवन इत्यादिगुणः । सुश्र ते तु-मधुरो हणो दृष्यः शीतः खर्योऽतिमूत्रलः। विदारिकन्दो बल्यस्तु पित्तवातहरस्तु सः॥ इति । विदारिकन्दो द्विविधः स्वल्पवहुक्षीरभेदात् । तत्रालपक्षीरो हस्तिपाद इति लोके, बहुक्षीरस्तु दीर्घकन्दः, भूमिकुष्माण्ड इति लोके। ( तथा सुश्र तेवातपित्तहरी वृष्या स्वादुतिक्ता शतावरी। महती चव हया च मेधाग्निबलवर्धिनी। ग्रहण्यशोविकारनी दृष्या शीता रसायनी ॥ इति ।) निक्षारः। तालप्रलम्बस्तालाङ्करः, शस्यशब्देनेह मस्तकमजा गृह्यते। तरूटः कहारकन्दः, क्रौञ्चादनं घिन्चुलिका, कसेरुकशब्देन चिचोड़का राजकसेरुकश्च गृह्यते, अङ्कलोड्य हस्वोत्पल... * इतः परं श्लोकोऽयं के चित् पुस्तकेषु दृश्यते--
कषायमीषद् विष्टम्भि रक्तपित्तहरं स्मृतम् ।
पौष्करन्तु भवेद्वीजं मधुरं रसपाक्योः ॥ + सुश्रुतोक्तस्त्वयं शतावरीविषयकः श्लोकः हस्तलिखितादर्शपुस्तके दशनात् अत्रैव विनिवेशितोऽस्माभिः ।
१३०
For Private and Personal Use Only