________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३२ चरक-संहिता।
अन्नपानविधिः चिर्भटर्वारुके तद्वद बच्चोंभेदहिते तु ते। कुष्माण्डपक्वं सक्षारं मधुराम्ल तथा लघु ॥ स्पृष्टमूत्रपुरीषञ्च सर्वदोषनिवर्हणम् । केलूटञ्च कदम्बञ्च नदीमाषकमैन्दुकम् ॥ विशदं गुरु शीतञ्च समभिष्यन्दि चोच्यते ॥ २८॥ उत्पलानि कषायाणि पित्तरक्तहराणि च । पौ करन्तु भवेद्वीजं रक्तपित्तनयापहम् ॥ तथा तालप्रलम्बश्च उरःक्षतरूजापहम् ।
खजूरं तालशस्यश्च रक्तपित्तनयापहम् ॥ क्षुद्रकर्कटीफलं करिनाम। तद्वत् । रुक्षशीतगुरुणी! वर्चीभेदे अहिते तु ते। - कुष्माण्डमित्यादि। पूर्व कुमाण्डकमवल्गुनयितिवचनेन कुष्माण्ड पत्रगुण उक्त इह तु तस्य फलं सक्षारादिगुणम् । सुश्र ते तु-...पुष्पफलालावुकलिन्दकप्रभृतीनि। पित्तनान्यनिलं कुय्यु तथा मन्दककानि च। सृष्टमूत्रपुरीपाणि स्वादुपाकरसानि तु ॥ पित्तघ्नं तेषु कुष्माण्ड घालं मध्यं कफावहम् । पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् । सबदोपहरं हृदा पथ्यं चेनोविकारिणाम् ॥ इति ।
केलूटञ्चेत्यादि। केलूटं स्वादुविटपं तत्कन्दः स्वादशीतल इति हारीत. वचनम् । कदम्बं कलम्बिकामिति केचित, स्वल्पकदम्वमित्यन्ये । नदीमाषक: वर्तमानकः। ऐन्दुकं निखाड़ इति लोके ।। २८ ।।
गङ्गाधरः---उत्पलानीत्यादि। उत्पलानां कन्दानि वीजानि। पोष्करमित्यादि। पौष्करं पयवीजम् । तालपलम्ब तालाङ्करः। खजूरं तालशंस्यश्च फलम् । सुश्र ते च-तालनारिकेलखज्जू रप्रभृतीनां मस्तकमज्जानः---- स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा। शुक्रलाननिलघ्नांश्च कफबृद्धिकरानपि॥ अन्यत्र तु। गुवाकम्य शिरस्तद्वद्भ दकं मदकारकमिति । ... चक्रपाणिः-केलूटे हारीतवचनं-“केलुटं स्वादविटपं तत्कन्दः स्वादशीतलः" इति । कदम्बं कदम्बिकां वदन्ति, केचित् तु स्यल्पकदम्बकमाहुः, नदीमाषका उन्दीमाणबक इति ख्यातः, ऐन्दुक
For Private and Personal Use Only