________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ।
सूत्रस्थानम् ।
१०३५ तृष्णादाहज्वरश्वास-रक्तपित्तक्षतक्षयान् । वातपित्तमुदावर्त स्वरभेदं मदात्ययम् ॥ तिक्तास्यतामास्यशोषं कासश्चाशु व्यपोहति । मृद्वीका.वहणी वृष्या मधुरा स्निग्धशीतला ॥ मधुरं वहणं वृष्यं खजरं गुरु शीतलम् । चयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥ तपणं वहणं फल्गु गुरु विष्टम्भि शीतलम् । परूषकं मधूकञ्च वातपित्ते च शस्यते ॥ मधुरं वहणं बल्यमाम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥ कारीषं कषायं वातकोपनश्च । वेणुजातं कषायं वातकोपनश्च। भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः। इति । __ वर्ग समापयति-चतुर्थ इत्यादि। पत्रकन्दफलाश्रय इति प्रायेण तत्पुष्पगुणकथनं नानुपपन्नमिति ॥२९॥
इति शाकवर्गश्चतुर्थः । ४ ।। गङ्गाधरः-अथ शाकफलाश्रया इति वर्गक्रमनिर्देशाच्छाकवर्गानन्तरं फलवगमाह-तत्र श्रष्ठखाद्राक्षागुणमाह-तृष्णेत्यादि। मूद्वीका द्राक्षाफलं पक्वं न सामं मधुरखाभावात् । मधुरमित्यादि । खजूरं खज्जू रस्य पक फलं स्वल्पशस्यं बहुशस्यश्च द्विविधम् । तर्पणमित्यादि । फल्गु कोठोडम्बुरफलं पकम् । तच्चामं शाकखान्नात्राभिहितम्। परूषकमित्यादि। परूषफलं पक', पकमेव च मधूकफलं न खामम् । सुश्रुते च-द्राक्षाकाश्मय्येमधूकखजूरप्रभृतीनि । रक्तपित्तहराण्याहुगुरूणि मधुराणि च। तेषां द्राक्षा सरा वा मधुरा स्निग्ध. शीतला। रक्तपित्तज्वरश्वास-तृष्णादाहक्षयापहा ॥ हृद्य मूत्रविबन्धघ्नं पित्तामृग्वातनाशनम्। केश्यं रसायनं मेध्यं काश्मयं फलमुच्यते ॥ इति । मधुरमित्यादि । आम्रातमाम्रातकस्य पक फलं मधुरमामन्तु अम्लं शाकखात् तस्य
चक्रपाणिः-फलानामपि केपाञ्चिच्छाकवदुपयोगात् फलवर्गमाह। मृवीकाऽऽभिधीयते श्रेष्ठगुणत्वात् । फल्गु औडुम्बरम् । मधूकशब्देन समानगुणत्वात् फलं कुसुमञ्च ज्ञेयम् । परूषकमिह
For Private and Personal Use Only