________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७श अध्यायः
सूत्रस्थानम् । सर्व्वाणि सूयशाकानि फञ्जी चिल्ली कुतुम्बुकः । लुकानि च सर्वाणि सपत्राणि कठिञ्जरः ॥ शाल्मलिपुष्पाणि कर्बुदारः सुवर्चला । निष्पावः कोविदारस्य पत्तरश्चञ्चुपर्णिका ॥ कुमारजीव लोहाकः पालङ्को मारिषस्तथा । कलम्बुनालिका सूर्य्यः कुसुम्भवृकधूमकौ ॥ लक्ष्मणा च प्रपुन्नाड़ो नलिनीका कुठेरकः । लोणिका यवशाकञ्च कुष्माण्डकमवल्गुजम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०२८.
1
/
सर्व्वाणीत्यादि । मृत्यस्य पयोनिमुहचणकादेः शाकानि पत्राणि । फञ्जी ब्रह्मयष्टीपत्रम् । चिल्लिगी वास्तुकम् । कुतुम्बुकः द्रोणपुष्पीपत्रम् | सर्व्वाण्यालुकानि पिण्डालुकमध्वालुकादीनि सपत्राणि तेषां पत्राणि । कठिञ्जरः कुठेरकपत्रम् | कच्च दारपुष्पम् । सुवच्चेला सय्यभक्तापुष्पम् | कोविदारस्य काञ्चनस्य निष्पावः शिम्बाफलम् । पत्तूरः शालिञ्चः । चुञ्चुपणिका चुयाशाकं लोके एरण्डपर्णीत्युच्यते । कुमारजीवो जीवशाकम् । लोट्टाको लुटियाशाकम् । पालकाः ख्यातो लोके । मारिषः डॉडालटिया । कलम्बुः कलमीशाकम् | नालिका गोलाड़चिः । सूय्यैः सुरीः राजी तस्याः पत्रं राइशाकम् | कुसुम्भः प्रसिद्धः । वृकधूमकः भूमिमारिषः | लक्ष्मणा स्वनामख्याता तस्याः पत्रम् । प्रपुनाड़ एड़गजा तस्य पत्रं, फलन्तु शमीधान्ये प्रागभिहितम् । नलिनीका पद्ममृणालम् नीलिनीकेति पाठे नीलीपत्रम् । कुठेरकः पर्णासभेदः । लोणिका गुणइशाकम् | यवशाकं क्षेत्रवास्तूकशाकम् ।
For Private and Personal Use Only
कलायं वर्त्तुं लकलायम्, तिलपका हुलहुलिका, गोजिहा दार्श्विपत्रिका, कुलकः कारवेल्लकः, केचित् तु कुलकं पटोलभेदमाहुः, कर्कशः स्वल्पकर्कटिकः ।
सूयशाकानि मापपर्ष्यादनि, फञ्जी ब्राह्मणयटिका, बिल्ली गौड़वास्तुकं कुतुम्बुको द्रोणपुष्पिका, आलुकादीनि पिण्डालुकादीनि कर्बुदारः काञ्चनः सुवर्चला सूर्यreer, केचिन्न फलकमाहुः, पत्तूरः शालिञ्चः, चुन्नुपर्णिका नाड़ीचभेदः, कुमारजी वो जीवशाकं, लोट्टाको लोहामारिषः, नालिका गोनाड़ीच:, आसुरी राजिका मण्डको वा, वृकधूमको भूमिशिरीषः, लक्ष्मणा स्वनामख्याता, नलिनी पद्ममृणालं, नीलिनीपाठपक्षे बुद्धा, यवशाकं क्षेत्रवास्तुमं,