________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२८
चरक-संहिता। । अन्नपानविधिः दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते। प्रशस्यतेऽम्लचाङ्गरी ग्रहण्योंहिता च सा ॥ मधुरा मधुरा पाके भेदिनी श्लेग्मवर्द्धिनी। वृष्या स्निग्धा च शीता च मदनी चाप्युपोदिका ॥ रुक्षो मदविषन्नश्च प्रशस्तो रक्तपित्तिनाम् । मधुरो मधुरः पाके शीतलस्तण्डुलीयकः ॥ मण्डूकपर्णी वेत्रान कुचला वनतिक्तकम् । कर्कोटकावल्गुजको पटोलं शकुलादनी ॥ वृषपुष्पाणि शाङ्गष्टा केबुकं सकठिल्लकम् । नाड़ीकलायं गोजिता वार्ताकी तिलपर्णिका ॥ कोलकं कार्कशं नम्बं शाकं पार्पटकञ्च यत् ।
कफपित्तहरं तिक्तं शीतं कटु विपच्यते ॥ दीपनीत्यादि। अम्लचाङ्गरी अम्लरोलीति ख्याता। मधुरेत्यादि । उपोदिका पुदिनापत्रम् । मक्ष इत्यादि। नाडुलीयकोऽल्पमारिषः । मण्डूकपर्णीत्यादि। मण्डकपर्णी मन्युमणी। वधान त्रस्य कोमलाग्रम् : कुचेलापत्रम् । वनतिक्तकं श्वेतबहला । ककौटकं कॉकरोलाख्यस्य फलम् । अबल्गुजं वागुजीपत्रवीजम् । पटोलं पत्रं फलन । शकुलादनी कटुरोहिणीपत्रम् । वृषपुष्पाणि वासकपुष्पाणि। शाङ्गेष्टा कानिक्तिका। केवुकं केउफलम् . कठिल्बकः कारवेलः । नाड़ी नाड़ीशाक डाँडा इति लोक। कलायं वर्तुल कलायपत्रम्। गोजिहा दीशाकम् । वार्ताकुः प्रसिद्धा। तिलपर्णो एड़गजापत्रं फलश्च। कोलकं पटोलफलम् । काकेशं स्वल्पकर्कोटकफलम् । निम्बं निम्बपत्रम्। पापटकश्च शार्क क्षेत्रपपटीपत्रम् । सर्वमिदं कफपित्तहरमित्यादिगुणं तत्र विशेष उन्नेयः । कालिया इति ख्यातम्, कालाख्यमिति कालशाकमेवोच्यते पुनः, अन्ये तु “कालायम्" इति पठन्ति। मण्डूकपर्णा मणिमणि ख्याता, कुचेला अकर्णविद्धि काभेदः ; वनतितकं पथ्यसुन्दरम, अवलगुजो वागुजी, शकुलादनी कटुरोहिणी, शाङ्गेष्टा काकतिक्ता, कटिल्लकः पुनर्नवा, नाड़ी नाड़ीचः,
For Private and Personal Use Only