________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (दीर्घजीवितीयः तु सांसर्गिकः। श्लक्ष्णवादीनामनभिव्यक्तखादिह नोपदेशः पाञ्चभौतिके तूपदेशः करिष्यते। कस्मादेवमेकैकगुणहास इत्यत उक्तं तत्र व। अनुप्रविष्टं ह्यपरं परेणेति। परेण परेणाकाशादिना हि यतोऽपरम्भूव पूर्वमनुप्रविष्ट तस्मादाकाशगुणो वायौ यात्मकश्च वायुः । तस्य द्वयात्मकस्य वायोस्तेजस्यनुप्रवेशात् त्रात्मक त्रिगुण तेजस्तस्यापस्वनुप्रवेशादापश्चतुरात्मिकाश्चतुर्गुणास्तासां पृथिव्यनुप्रवेशात् पृथिवी पश्चात्मिका पञ्चगुणा चेति । प्रत्येकञ्च पृथिव्यादीनां काय्यभूतानां द्रव्यगुणकर्मणामनन्तो भेदः पृथक्त्तवम् । पृथत्त वगुणयुक्तधर्मवत्त्वेनोत्पत्तत्रा प्रसिद्धः। एवं सामान्यविशेषसमवायानां विशिष्टा धर्मा गृह्यन्ते। द्रव्यगुणकर्मसमवायान्यतमात्मकस्य सामान्यस्य विशिष्टधम्मो सर्वभावाणां वृद्धिहेतुबैकलकरत्वे। तथैव विशेषस्य सर्वभावहासहेतुलपृथक्लकरत्वे। समवायस्य तु द्रव्यगुणकर्मणां मेलकवं विशिष्टो धर्म इति । इत्येवं स्वेन वन धम्मेण जातानां द्रव्यादीनां भावानां सोपाख्यवादुपा. ख्यानसद्भावासम्पत्यायकोऽर्थभेदः तत्तद्वस्तुरूपेण बोधको भवितुमर्हति । अभावस्य निरुपाख्यखाबुपाख्यानाभावात् सम्प्रत्यायकोऽर्थभेदो न स्यात् । यदि सों भाव एवाभावः स्यात् तदा सोपाख्यवादयं सम्प्रत्यायकोऽथभदस्वस्ति। तस्मान्न सर्वमभाव इति। अत्रोत्तरमिदम् । एवं भेदको धर्मथेत तदा विभिन्नधर्मवत्त्वेन जाताः सवर्षे भावाः परस्परं भिन्ना इति भेदवत्त्वात् सर्व वस्तु चाभाव उच्यते। उक्तरूपेण परस्पराभावस्य भेदस्य सिद्धेरिति । अश्वाभावो गौः गवाभावोऽश्व इति । इत्येवं वचनं निरसितुमाह । अथवेत्यादि। मूत्रस्यास्यान्यप्रकारो वाऽर्थः। स्वभाव सिद्धेरिति स्वरूपसिद्धेरित्यर्थः । स्वरूपश्च स्वभावश्च निसगश्च त्येकोज्थः । कथं स्वन रूपेण सिद्धिरिति तदर्शयति, गौरित्यादि।-गौरिति प्रयोगात् गोखजातिविशिष्टसास्नादिमद द्रवयं गोस्वरूपं गृह्यते, न खभावमात्रमश्वाभावमात्रम् । यदि च सर्वमभावस्तदा गौरिति प्रयोगादश्वाभावो गौरिति प्रतीयते, गोशब्देन चाश्वायभाव उच्यते। यदि च गोशब्दप्रयोगे सास्त्रादिमद द्रव्यविशेषो न प्रतीयते तदाऽश्वायभाव एव प्रतीयते। यदि च गोशब्दप्रयोगे सानादिमद वयविशेषः प्रतीयते, तदा नाभावोऽश्वायभावो न प्रतीयते। तस्मात् सर्वमभाव इत्ययुक्तमिति। अत्राप्येतदुत्तरम् । भावेष्वितरेतराभावसिद्धेरित्युक्तम, तेन गोशब्देनाभावमात्रं न प्रतीयते । भावान्तरेण सह परस्परं भेदवद द्रव्यस्वरूपेण जातखादश्वादिस्वरूपादभाव एव गौद्रव्यं प्रतीयतेऽनश्वो गौरिति । तस्मात्
For Private and Personal Use Only