________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
६१ सद्भाव इति प्रतिज्ञा। भावा हि स्वस्वधम्प्रवत्तया जायन्ते, भवन्तीति भावा एवोच्यन्ते न तु न भवन्तीत्यभावा उच्यन्ते। स च धर्म इतरेतराभावरूपपृथक्त्वकृत् तद्धम्मवत्तया भावा भवन्तीति भावा एव न खभावा इति प्रतिशायते। तत्र प्रश्नः, कश्चेत्यादि। येन वन धम्मेण भावा भवन्तीति । स खो धम्मः क इति पृष्ट आह, द्रव्येत्यादि ।-वैशेषिके कणादेन यदुक्तं तदनुमत्य स्मृत्वेदमुक्तम्। तत्र तूक्तमिदं, धर्मविशेषमूत्रात् द्रव्यगुणकर्मासामान्यविशेषसमवायानां साधर्म्यवैवाभ्यां तत्त्वज्ञानान्निःश्रेयसम् । पृथिव्यप्ते जोवाय्वाकाशं कालो दिगात्मा मन इति द्रव्याणि। रूपरसगन्धस्पर्शाः संख्या परिमाणं पृथक्त्वं संयोगविभागौ परवापरत्वे बुद्धय इच्छाद्वषो सुखदुःखप्रयत्नाश्च गुणाः। उत्क्षेपणमवक्षेपण प्रसारणमाकुश्चनं गमनश्च ति कर्माणि। सन्नित्यमद्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रवयगुणकम्मणामविशेष इति । द्रव्यगुणकर्मणां सदादि सामान्यमेको धर्म । तलो विशेषश्च पृथक्त्वकृत् । स्वो धम्मो द्रव्यादीनां क्रियागुणवदित्यादि । क्रियागुणवा समवायिकारणमिति द्रव्यलक्षणम् । द्रवयाश्रय्यगुणवान् संयोगविभागेषु अकारणमन्यापेक्षो गुण इति समवायिकारणम् इत्यनुवर्तते। तथा। संयोगविभागेष्वनपेक्षकारणं कमेति विशेषः। ततोऽपि पृथिवयादेविशेषो धर्मः स्पर्शपर्यन्ता गुणाः प्राक् गौतमेनोक्ताः। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः। गन्धरसरूपस्पर्शशब्दानां स्पर्शपय्यन्ताः पृथिवयप्तं जोवायूनामुत्तरोत्तरमेकैकमपोज्य चान्त्योऽन्त्यस्य । इति च पृथक्वकृत् स्वो धम्नः पृथिव्या गन्धो गुणो नैसर्गिकः, अपां रसः, तेजसो रूपं, पायोः स्पर्श इति। गन्धादीनां पञ्चानां स्पर्शपय॑न्ताः पृथिव्यप्ते जोवायूनाम् । तेषामेव गन्धरसरूपस्पशशब्दानामुत्तरोत्तरमेकैकमपोज्झा च पृथिवयप्ते जोवायूनां सांसर्गिका गुणाः, तेन पृथिव्या गन्धो नैसर्गिको रसरूपस्पर्शशब्दाः सांसर्गिका इति पञ्चगुणा पृथिवी गुरुत्वादीनामनभिवयक्तखादिह नोपदेशः क्रियते। एवमपां रसो नैसर्गिकस्तमपोझा च रूपस्पर्शशब्दाश्च सांसर्गिका इति चतुगुणा आपः। द्रवखादीनामनभिव्यक्तखादिह नोपदेशः । तेजसो रूपं नैसर्गिकं, तदपोज्झा च स्पर्शशब्दौ च सांसर्गिकाविति त्रिगुणं तेजः, उष्णखादीनामनभिव्यक्तखादिह नोपदेशः । वायोः स्पर्शो नैसर्गिकः, तमपोज्य च शब्दश्च सांसर्गिक इति द्विगुणो वायू रौक्ष्यादीनामनभिवयक्तखादिह नोपदेशः। अन्त्यः शब्दोऽन्त्यस्याकाशस्य नैसर्गिक एव नास्ति
Villi Piticilli Tiilith
For Private and Personal Use Only