________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
चरक-संहिता। [ दोर्घञ्जीबितीयः अनुशाय तमेव परस्पराभावमाश्रित्य च परस्पराभावसिद्धया। एको हि भावोऽपरस्तस्याभावस्तस्याभावश्च स इत्येवं परस्पराभावसिद्धया सर्वमभाव इत्युच्यते। यदि सर्वमभाव इत्युच्यते तदा भावेष्वितरेतराभावसिद्धेरिति हेतुनौपपद्यते। सर्वमभावः कस्येत्यनुपपत्तिरिति। तत्रोत्तरमाह, अथेत्यादि। भावानां स्वभावसिद्धर्भावेष्वितरेतराभावसिद्धिरित्युपपत्तिः स्यादिति। अत्राप्यनुयोगसूत्रम् । न स्वभावसिद्धर्भावानाम्। अस्य भाष्यम् ।-न सर्वभभावः। कस्मात् ? खन भावेन सद्भावात् । भावानां खेन धर्मेण भावा भवन्तीति प्रतिज्ञायते। कश्च स्वो धम्मो भावानाम् ? द्रव्यगुणकर्मणां सदादिसामान्यं द्रव्यादीनां क्रियागुणवदित्येवमादिविशेषः। स्पर्शपय्यन्ताः पृथिव्यादेरिति च प्रत्येकं चानन्तो भेदः। सामान्यविशेषसमवायानाश्च विशिष्टा धर्मा गृह्यन्ते। सोऽयमभावस्य निरुपाख्यखात् सम्पत्यायकोऽर्थभेदो न स्यात् । अस्ति द्वयं तस्मान्न सर्वमभाव इति। अथवा। न स्वभाव सिद्धेर्भावाना मिति। स्वरूपसिद्धेरिति। गौरिति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम्। यदि च सर्वमभावः, गोरित्यभावः प्रतीयते। गोशब्देन चाभाव उच्यते। यदि च गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस्तस्मादयुक्तमिति। अथवा न स्वभावसिद्धेरिति। असन् गौरश्वात्मनेति गवात्मना कस्मानोच्यते, अवचनात् । गवात्मना गौरस्तीति स्वभावसिद्धिः। अनश्वोऽश्व इति वा अगौः गौरिति वा कस्मामोच्यते, अवचनात् । खन रूपेण विद्यमानता द्रवयस्येति विज्ञायते अव्यतिरेकप्रतिषेधे च। भावानामसंयोगादिसम्बन्धो व्यतिरेकः। अत्राव्यतिरेकोऽभेदाख्यसम्बन्धः। प्रत्ययसामानाधिकरण्यं यथा-न सन्ति कुण्डे बदराणीति । असन् गौरश्वात्मनाऽनश्वो गौरिति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते। गवाश्वयोरेकलं नास्तीति। तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यमसत्प्रत्ययस्य। असन् गौरश्वात्मनेति। यथा न सन्ति कुण्डे बदराणीति। कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्य सामानाधिकरण्यमिति। भाष्यस्यास्येदमनुवयाख्यानम । -न सर्वमभाव इति मूत्रस्मरणार्थवचनं, तेन सर्वमभावो भावेष्वितरेतराभावसिद्धेरिति न। तत्र कस्मादिति हेतुप्रश्नः। खेन भावेन सद्भावाद्भावानामिति वार्तिकेन स्वभावसिद्ध रित्यस्यार्थः प्रदर्शितः। तद्वार्तिकं भाष्येण वयाख्यायते, स्खे नेत्यादि ।-स्वेन भावेन भावानां सद्भावः, खेन धम्मेण भावा भवन्तीति
HHHHTHHTHI
For Private and Personal Use Only