________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
दह
भावस्य भिन्नस्तस्य च भिन्नः सोऽयरो भाव इत्यन्योन्यमभावसिद्धेः सन्त्र भावोऽभावश्च । तद्यथा असन्नित्यादि । न सन् असन् गौः । सन्निहाश्वः । अश्वात्मना अश्वरूपो न गोरित्यनश्वो गौरित्यर्थोऽसन गौरित्यस्य । एवं सन् गौर्न सन्नसन्नव गवात्मना गोरूपो नाश्व इत्यगौरव इत्यर्थः । इत्येव - मसत्प्रत्ययस्य सद्भिन्नमत्ययस्य प्रतिषेधस्य खल्वसत्पदार्थस्य गवाश्वपदार्थेन भावेन सह सामानाधिकरण्यादभेदादसदभिन्नो गौरसदभिन्नोऽश्व इत्यभेदप्रतीत्या असन गौरसन्नश्व इति । अथात्र विप्रतिपत्तिमिमां दर्शयति । Raftara इति प्रतिज्ञावाक्ये इत्यादि । सर्व्वभाव इति प्रतिज्ञापद भावेष्वितरेतरापेक्षसिद्ध रिति हेतुपदमित्यनयोः प्रतिज्ञाहेत्वोः पदयोस्तु व्याघातादयुक्तं सर्वमभाव इति वाक्यम् । व्याघातन्तु दर्शयति, अनेकस्येत्यादि । सर्व्वमभाव इत्यत्र सर्व्वशब्दस्यार्थोऽनेकस्याशेषता । अभावशब्दस्यार्थस्तु भावप्रतिषेधः । तत्र पूर्व सर्व्वमिति यदुक्तं तत्सोपाख्यमुपाख्यानसहितम् । उत्तरमभाव इति यदुक्तं तन्निरुपाख्यमुपाख्यानरहितम् । कृत्स्न' वस्तु भाव उच्यते, तदेव कृत्स्त्र वस्तु कथमभाव उच्यते ? सभ्यगुपाख्यायामान वस्तुरूपेणाख्यायमानं सर्व्वं कथं निरुपाख्यमुपाख्यानरहितमभावः स्यादिति व्याघातः । एवं न जातु कदाचिदपि निरुपाख्यः अभावोऽनेकतयाऽशेषतया च शक्यः प्रतिज्ञातुमिति । कुत्रचिदेकस्याभावोऽथ कुत्रचिदुभयस्य कुत्रचित् त्रयाणामित्येवमादिरूपादशक्योऽभावो निरवशेषतया प्रतिज्ञातुमिति च व्याघातः । भावो हि सर्व्वमेव, तस्य सर्वस्य प्रतिषेधे सर्व्वातिरिक्तं किमस्ति किञ्चिदपि नास्तीति सर्व्वातिरिक्तं नास्ति यत्तदवस्तु तस्मादने तयाऽनवशेषतया नाभावः शक्यो भवता प्रतिज्ञातुमिति । तत्राहो - उत्तरम् । सर्व्वमेतदभाव इति । यदिदं सर्वमिति मन्यते तत्समभाव इति चेदुच्यते । तदेवमेवप्रकारेणापि व्याघातोऽनिवृत्त एव । तं च व्याघातं दर्शयति, अनेकमित्यादि । सवमित्यनेकमशेषञ्चेति यदनेक निःशेष' च तन्नाभावप्रत्ययेन भवितुं शक्यम् । कथमित्यत आह, अस्ति चायमित्यादि । सर्व्वमित्ययं प्रत्ययश्चास्ति तस्मात् प्रत्ययादभावः समिति न प्रत्ययः स्यात् । एकद्वित्रप्रादीनामभावस्यानवशेषत्वाभावात् । इति प्रतिज्ञाहेत्वोश्व व्याघातः । अत्र पुनराहोत्तरम्, समभाव इत्यादि । समभाव इति सव्वं न भाव इति भावप्रतिषेधः प्रतिज्ञा । तत्र भावेष्वितरेतराभावसिद्धेरिति हेतुः । अत्र हेतुवचने भावेध्वितरेतराभावं परस्पराभावम्
।
१२
For Private and Personal Use Only