________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
६३ सर्वमभाव इति युक्तमित्यतः पुनराह, अथवेत्यादि। न स्वभाव सिद्धरित्यस्य अपरोऽयमर्थः। तदर्थ दर्शयति। असन् गौरश्वात्मनेति गवात्मना कस्मान्नोच्यते अवचनादिति वार्तिकं भाष्येण व्याचष्टे गवात्मना गौरस्तीत्यादि। यथोच्यते सन्नश्वो नाम भावः। सतोऽभावोऽनश्वोऽसन गौरिति तथा गवात्मना गौरसन्निति कस्मान्नोच्यते ? परस्परं भेदवद द्रव्यसानादिमत्त्व न प्रतीतेगेवात्मना गौरस्त्येवेति स्वभावसिद्धिः। अश्वात्मनाश्वोऽस्तीति। स चेदभावो भवति, तदाऽगौगौ रनश्वोऽश्व इति वा कस्मान्नोच्यते। अपि तु नैवोच्यते। कस्मात् ? अवचनात् । गोशब्दनागोरश्वशब्देनानश्वस्यावचनात् । कुतोऽप्यवचनं तदाह,. खं नेत्यादि। यतः सत्पदन वन रूपेण द्रव्यस्य विद्यमानतेति विज्ञायते न खसत्पदैन। यदि नजात्रावयतिरेकप्रतिषेध उच्यते तत्रापि भावानामव्यतिरेक इत्यत्र व्यतिरेको भावानामसंयोगादिसम्बन्धो येन सम्बन्धन विना घटकानां समुदाय त्तिः स्यात् स सम्बन्धोऽसंयोगादिपृथक्वविभागादिः । संयोगादिसम्बन्धेन तु घटकानां समुदाये वृत्तिः स्यात् ततः समवायादेकीभावेऽत्राव्यतिरेको भवत्यभेदाख्यः सम्बन्धः। तस्यावयतिरेकस्य सम्बन्धस्य प्रतिषेधे एकीकृत् संयोगसमवायादिसम्बन्धप्रतिषेधे प्रत्ययसामानाधिकरण्यम् । यथा न सन्ति कुण्डे बदराणीति वार्तिकं व्याचष्ट असन्नित्यादि। प्रत्ययार्थस्य सामानाधिकरप्यम, तदुदाहरति । यथेत्यादि। न सन्ति कुण्डे बदराणीति। सन्तीति कथे झिप्रत्ययः। तदर्थकत्तेसामानाधिकरण्यं बदराणीति बहुवचनान्तबदरपदार्थ तस्य प्रतिधो न सन्तीति । एवम् असन् गौरश्वात्मनाऽनश्वो गौरित्यर्थे गवाश्चयोध्यतिरेकस्तादात्म्यं प्रतिषिध्यतेऽनश्वो गौरिति । गवाश्चयोरेकलमभेदो नास्तीति। भेदस्तु पृथक्त्वमस्तीति नत्रा पृथग्भावो गुणः प्रत्याय्यते। अयमेकखाख्यस्तु भावः प्रतिषिध्यमानः सति खस्मिन्ने कत्वे प्रतिषिध्यमाने सन्नश्वः। स एवाश्वात्मनैवास्तीति नाश्वोऽनश्व इत्यस्यासत्प्रत्ययस्य भावेन गवा सह सामानाधिकरण्यम् असन् गौरनश्वो गौरश्वात्मनेत्यसत्प्रत्ययश्च अभावप्रतीतिश्चेत्यर्थः । अयमन्योन्याभावः। दृष्टान्त व्याचष्ट। यथा न सन्तीत्यादि। कुण्डे बदरसंयोगे कुण्डानुयोगिकबदरप्रतियोगिको यः संयोगः प्रसज्यते तस्मिन् प्रतिषिध्यमाने कुण्डे बदराणि न सन्तीत्युच्यते। तेन संयोगेनाव्यतिरेकेण सम्बन्धेन कुप्डे बदराणि सन्तीति, तस्मिन् कुण्डे बदरसंयोगस्य प्रतिषेधे सद्भिर्बदरैः सहासत्प्रत्ययस्याभावतया प्रतीतिविषयस्य कुण्डवदरविभागस्य
For Private and Personal Use Only