________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७शा भध्यायः सूत्रस्थानम् ।
१०२३ गव्यं केवलवातेषु पीनसे विषमज्वरे। शुष्ककासश्रमात्यग्नि-मांसक्षयाहितञ्च तत् ॥ गुरूष्णा मधुरा बल्या वृहणाः पवनापहाः ।
मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः॥ हरिणो लघुः ॥ एणः कृष्णस्तयोशे यो हरिणस्ताम्र उच्यते। न कृष्णो न च ताम्रश्च कुरङ्गः सोऽभिधीयते ॥ इति ।
गष्यमित्यादि। प्रसहेषु गव्यं मांसं केवलवातादिषु हितम् । इति । सुश्रु ते ग्राम्यवर्ग-श्वासकासप्रतिश्याय-विषमज्वरनाशनम् । श्रमात्यनिहितं गव्यं पवित्रमनिलापहम् ।। अश्वादिमांसानां गुणाश्चोक्ताः । औरभ्रवत् सलवणं मांसमेकशफोद्भवम् । अल्पाभिष्यन्द्ययं वो जाङ्गलः समुदाहृतः। दृरे जलान्तनिलया दूरे पानीयगोचराः। ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः॥ अतीवासननिलयाः समीपोदकगोचराः। ये मृगाश्च विहङ्गाश्च महाभिप्यन्दिनस्तु ते॥ इति । ___ गुरूष्णा इत्यादि। वारिशयवर्गषु। मत्स्या गुरूष्णा मधुराश्च रसे पाके च मधुराः। उष्णाः प्रभावात्। पवनापहाः स्निग्धवात् । वहुदोषा नानाव्याधिकराः। सुथ ते पञ्चविधा आनूपा उक्ताः-कूलचराः, प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति। तत्र मत्स्यास्तु द्विविधाः नादयाः सामुद्राश्च । तत्र नादेया रोहितपाठीनपाटलाराजीवम्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः। नादेया मधुरा मत्स्या गुरवो मारुतापहा । रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवच्चसः । कपायानुरसस्तेषां शष्पशवालभोजनः। रोहितो मारुतहरो नात्यर्थ पित्तकोपनः । पाठोनः श्लेष्मलो दृष्यो निद्रालुः पिशिताशनः। दूषयत्यम्लपित्तन्तु कुष्ठरोगं करोत्यसो ॥ मुरलो हणा वृष्यः स्तन्य श्लेष्मकरस्तथा। सरस्तड़ागसम्भूताः स्निग्धाः स्वादुरसास्तथा। महादेष बलिनः खल्पेऽम्भस्यबलाः स्मृताः॥ इति । तथान्यत्र च । मत्स्यास्तु हणाः सवें गुरवः शुक्रवद्धनाः। बल्याः स्निग्धोष्णमधुराः कफपित्तकराः स्मृताः। व्यायामाध्वरतानाञ्च दीप्तानीनाश्च शस्यते। मत्स्याशिनो न बाधन्ते प्रायशो वातजा गदाः। महाप्रमाणा गुरवः शुक्रला बद्धवच्चेसः। क्षुद्रमत्स्यास्तु लघवो ग्राहिणो ग्रहणीहिताः। कृष्णमत्स्या लघुस्निग्धा वातघ्ना वह्निवद्धनाः। योऽनुपिबेत् पयः” इत्यादिवृष्यप्रयोगादेव लभ्यते ; मयूरादीनान्तु बहवो गुणा गणोक्तगुणाधिका
For Private and Personal Use Only