________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२४
चरक-संहिता। [अन्नपानविधिः पाण्डरा दोषलाः स्निग्धा गुरवो भिन्नवर्चसः । इल्लिशो मधुरः स्निग्धः पित्तश्लेष्मप्रकोपणः। नृणां व्यायामनित्यानां हितो वह्निप्रदीपनः । एलङ्गः स्निग्धमधुरो गुरुविष्टम्भिशीतलः। अन्यत्र। एलङ्गो मधुरो दृष्यः संग्राही कफपित्तजित् । पव्वेतो वातहा स्निग्धः शुक्रलो वलवर्द्धनः। तत्रान्तरे। पवंतो मधुरः स्निग्धः कषायानुरसो गुरुः। शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः। वातपित्तहरो दृष्य आमवातहरो मतः । शकुलो मधुरो वृष्यः कषायो विशदो लघुः। अन्यत्र च। शकुलो मधुरो ग्राही रुक्षः पित्तामजिद्गुरुः। भाङ्गटो मधुरो वृष्यः कपायानुरसो गुरुः । वम्मिमत्स्यस्तथा दृष्यो मधुरो रसपाकयोः। तन्त्रान्तरे तु। वम्मिमत्स्यो गुरु ष्यः कषायो रक्तपित्तहा। वम्मु पो वातहा स्निग्धो ग्रहणीदोषनाशनः । कुलिशो मधुरो हृद्यः कषायो दीपनो मतः । शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपिणी। अन्यत्र तु । शृङ्गी स्वादुरसा स्निग्धा टहणी कफकोपिनी। मदगुरो मधुरो दृष्यो विपाके मधुरो गुरुः। अन्यत्र च। मदगुरो मधुरः स्निग्धः संग्राही शुक्रलो गुरुः। कवयः सिग्धमधुरा बल्या वातकफापहाः । चलदङ्गोऽनभिषान्दी हितो वाते च रोचनः । गड़को मधुरो रुक्षः कषायः शीतलो लघुः। शकली रोहिताकारा प्रायो भूमो चरत्यसो। मत्स्यश्चिलिचिमो नाम वल्वीगड़समो गुणैः। सव्वेवातकरश्चैव कफनाशन उत्तमः। वल्वीगड़ो लघू रुक्षोऽनभिष्यन्दी च पूच्चतः। गुच्छमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः। आडिमत्स्यो गुरुः स्निग्धो वातश्लेष्मप्रकोपणः। वायुपो मधुरो वृष्यो हणो धातुवर्द्धनः। भेकाटो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः। गगेरो मधुरः स्निग्धो वातपित्तविनाशनः । चित्रफलो गुरुः स्वादुः स्निग्धो वृष्यो बलप्रदः। फली स्वादुगुरुः स्निग्धो वलकृच्छकवर्द्धनी। नन्द्यावत्तेस्तु संग्राही कफपित्तविनाशनः । वाचः स्वादुगुरुः स्निग्धः इलेष्मलो वातपित्तजित् । चिङ्गटस्तु गुरुाही मधुरो वलवद्धनः। भेदःपित्तास्रजिष्यो रोचनश्च कफप्रदः। चिङ्गटी मधुरा हृया वातघ्नी श्लेष्मला गुरुः । स्निग्धास्यकफरोगनी श्रेष्ठा प्रोष्ठी प्रकीर्तिताः। प्रोष्ठी तिक्ता कटुः स्वादुः शुक्रला कफवातजित् । चन्द्रकस्वनभिष्यन्दी मधुरो बलवद्धनः । दण्डिकः कफजित् तिक्तो.वातपित्तहरो लघुः। चम्पकुन्दो गुरुप्यो मधुरो वातपित्तजित्। त्रिकष्टः पित्तहा रुक्षो दीपनः कफजिल्लघुः। खलिशः कथितो इति पृथक् पाठः कृतः। “मांसं वृहणानाम्” इत्यनेनैबामवाधिकारवचनेन मांसस्य वृहणत्वे
For Private and Personal Use Only