________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (अन्नपानविधिः शुकमांसं कषायाम्लं विपाके कटु शीतलम् । शोषकासक्षयहितं संग्राहि लघु दीपनम् ॥ चटका मधुराः स्निग्धाः कफशुक्राभिवर्द्धनाः। सन्निपातप्रशमनाः शमना मारुतस्य च ॥ बलवीर्यकराश्चैते क्लीवत्वमुपहन्यते।। कषायो विशदो रुक्षः शीतः पाके कटुर्लघुः॥ शशः स्वादुः प्रशस्तश्च सन्निपातेऽनिलावरे । मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ।
लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः॥ कपोतकः। इति । काणः क्षुद्रः कपोतो घुघुरिति ख्यातः । प्रतुदेषु भेदाशिनो गुणाश्चोक्ताः सुश्र ते-सबवेदोषकरस्तेषां भेदाशी मलदृषकः । इति । तेषामिति प्रतुदानां मध्ये। शुकमांसमित्यादि । प्रतुदेषु शुकमांसं विपाके यथासम्भवात् कट तस्माच संग्राहि लघु चोपपद्यते । प्रतुदेषु सुश्रुते-कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवद्धनः। रक्तपित्तहरो वेश्म कुलिङ्गस्वतिशुक्रलः॥इति। कुलिङ्गश्चटकः । तद्गुणमाह-चटका इत्यादि। चटका इति बहुवचनेन जातिमात्रं ख्यापितं. तेन कुलिङ्गचटकयोरेष गुणसंग्रहः। कफशुक्राभिवर्द्धना अपि मिलितत्रिदोष शमनाः प्रभावात्। मारुतस्य च शमनाः । __ कषाय इत्यादि। जाङ्गलमृगेषु शशः स्वादुः कषायो रसे लघुरुक्षविशदशीतो वीव्ये पाके कटुः सनिपाते वातावरे शस्यते। सुश्रुते-विलेशयेषु, कषायमधुरस्तेषां शशः पित्तकफापहः। नातिशीतलवीय्यखाद्वाते साधारणो मतः॥ इति।
मधुरा इत्यादि। जाङ्गलमृगेषु एणाः कृष्णसारा रसे मधुराः पाके च मधुराः, त्रिदोषशमनाः संसृष्टानां त्रयाणां दोषाणां शमनाः। शिवा मङ्गलाः । लघवो बद्धविण्मूत्राः शीताश्च वीय्येण। सुश्रुते च-जङ्घालानां, कषायो मधुरो हृयः पित्तामुक्कफरोगहा। संग्राही रोचको बल्यस्तेषामेणो ज्वरा. पहः ॥ मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः । शीतलो बद्धविण्मूत्रः सुगन्धिये तु न पठन्ति, तेषां मते चटषस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं "तृप्ति टकमांसानां गत्वा
For Private and Personal Use Only