________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श भध्यायः] सूत्रस्थानम् ।
१०२१ गोधा विपाके मधुरा कषायकटुका रसे। वातपित्तप्रशमनी वृहणी बलवद्धनी ॥ शल्बको मधुरोऽम्लश्च विपाके कटुकः स्मृतः । वातपित्तकफनश्च श्वासकासहरस्तथा ॥ कषाया विशदाः शीता रक्तपित्तनिबर्हणाः। विपाके मधुराश्चैव कपोता गृहवासिनः॥ तेभ्यो लघुतराः किश्चित् कपोता वनवासिनः ।
शीताः संग्राहिणश्चैव स्वल्पं मृदुतराश्च ते ॥ प्रभावात्। सुश्रुते च-विकिरमध्ये, संग्राही दीपनश्चैव कषायमधुरो लघुः। लावः कटुविपाकश्च सन्निपाते च पूजितः ॥ इति ॥ २४ ॥
गङ्गाधरः--गोधेत्यादि । भूशयेषु मध्ये गोधा रसे कपायकटुका अपि विपाके मथुरा प्रभावान तु कटुका । सुश्रुते च-विलेशयेषु, गोधा विपाके मधुरा कपायकटुका रसे । वातपित्तप्रशमनी हणी बलवर्द्धिनी। द्विधा गोधा, स्वर्णगोधिका वन्यगोधिका चेति, द्वयोरेवते गुणाः। शल्बक इत्यादि। विलेशयेषु शल्वको रसे मधुराम्लश्च प्रभावाद्विपाके कदकः। रक्तपित्तादिहरश्च। सुश्रुते च--- विलेशयेषु, शल्वकः स्वादुपित्तनो लघुः शीतो विषापहः। इति ।
कपाया इत्यादि। प्रतुदेषु मध्ये कपोताः पारावता गृहवासि-वनवासिभेदाद द्विविधाः। तत्र गृहवासिनः पारावताः कषाया विशदाश्च। कषाया रसेऽपि प्रभावाद्विपाके मधुराः। तेभ्यो गृहवासिपारावतेभ्यः किञ्चिल्लघुतरा वनवासिनः । पारावता ये कपोतास्तेभ्यो मृदुतरास्ते शीताः स्वल्पं संग्राहिण. श्चैव भवन्ति। सुश्रुते च-प्रतुदवर्गे, रक्तपित्तप्रशमनः कषायो विशदोऽपि च। विपाके मधुरश्चापि गुरुः पारावतः स्मृतः॥ इति । पारावतसामान्यस्य गुणा उक्ताः। काणकपोतगुणाश्चोक्ताः, कषायस्वादुलवणो गुरुः काणतित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः ; किंबा, तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः, नान्यत्र गवादेरनूपदेशादेरिति ज्ञेयम् ॥ २४ ॥
चक्रपाणिः-कपोता गृहवासिन हात पारावताः। चटका मधुरा इति केचित् पठन्त्येव,
* स्वल्पमूत्रकराश्चेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only