________________
Shri Mahavir Jain Aradhana Kendra
१०२०
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ अन्नपानविधिः
स्निग्धाश्रोष्णाश्च वृष्याश्च बृंहणाः खरबोधनाः । बल्याः परं वातहराः स्वेदनाश्चरणायुधाः ॥ गुरूष्णो मधुरो नाति धन्वानूपनिषेवणात् । तित्तिरिः स जयेच्छीघ्र त्रिदोषाननिलोल्वणान् ॥ पित्तश्लेष्म विकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शरयन्ते शैत्यमाधुर्य्य लाघवात् ॥ लावाः कषायमधुरा लघवोऽग्निविवर्द्धनाः । सन्निपातप्रशमनाः कटुकाश्च विपाकः ॥ २४ ॥
I
वातघ्नो मांसशुक्रलश्च । सुश्रुतेऽपि विष्किरवर्ग - मयूरः स्वरमेधाग्नित्वक्श्रोत्रेन्दियदा कृत् । स्निग्धोष्णोऽनिलहा वृष्यः स्वेदवर्णबलावहः । इति । अन्यत्र च । वहीँ दृक्श्रोत्रमेधाग्नि- वयोवणें स्वरायुषाम् । हितो बल्यो गुरुष्णो वातघ्नो मांसशुक्रलः । इति । तथान्यत्र च । हेमन्तकाले शिशिरे वसन्ते सेव्यं हि मायूरमुशन्ति मांसम् । उष्णो हि वह विषभोजनत्वाद्वर्षाशरद्ग्रीष्ममुखेष्वपथ्यम् | चरणायुधाः कुक्कुटाः आरण्याः ग्राम्याथ । वत्तेकादिविष्किरेषु मध्ये | सुश्रुते च विष्किरवर्ग - हणः कुक्कुटो वन्यस्तद्वद् ग्राम्यो गुरुस्तु सः । वातरोगक्षयवमी - विषमज्वरनाशनः इति ।
For Private and Personal Use Only
तित्तिरिरित्यादि । वत्तेकादिविष्किरेषु स तित्तिरिः । त्रिदोषान् वातोलवणान् शीघ्रं जयेत् । सुश्रुतेऽपि - विष्किरेषु, ईषद्गुरूष्णमधुरो दृष्यो मेधाग्निवर्द्धनः । तित्तिरिः सर्व्वदोषघ्नो ग्राही वर्णप्रसादनः । हिक्काश्वासानिलहरो विशेषाद् गौरतित्तिरिः । पित्तश्लेष्मेत्यादि । लावादिविष्किरेषु मध्ये कपिञ्जलाः शैत्यमाधय्येलाघवात् सरक्तेषु मन्दवातेषु पित्तविकारेषु श्लेष्मविकारेषु च शस्यन्ते बहुवचनात् । सुश्रुते च विष्किरवर्गे- रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः । कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ॥ इति ।
लावा इत्यादि । लावादिविष्किरेषु लावाः कषायमधुरा अपि कटुपाकाः मयूरस्य गुरुत्वस्निग्धत्वं वर्त्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम् ; एवमन्यत्रापि गुणकथनेन लब्धस्य पुनः कथने व्याख्येयम् | चरणायुधः कुक्कटः; धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुणइति ज्ञेयः एवमन्येऽपि ये गवादयो धन्वानूपनिषेविणस्तेऽपि तित्तिरिसमानगुणाः स्युः,
;