________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
२७ अध्याय: ]
सूत्रस्थानम् ।
योनावजावी व्यामिश्र - गोचरत्वादनिश्चितौ ॥ सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥ २३ ॥ केषाञ्चिदगुणवैशेष्याद विशेष उपदेदयते । गुरूण स्निग्धमधुराः स्वरवर्णबलप्रदाः ॥ वृंहणाः शुक्रलाचोक्ता हंसा मारुतनाशनाः । दर्शनश्रोत्रमेधाग्नि वयोवर्णस्वरायुषाम् । वह हिततमो बल्यो वातघ्नो मांसशुक्रलः ॥ सदृशं गुणैः । इति । मेदःपुच्छ मेषविशेषः, पुच्छे यस्य स्थूलमांसपिण्डं वर्त्तते । इति ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०१६
नन्वष्टविधयोनिव्यतिरिक्तावेतावजावी किं भवत इति ? तत्राह - थोनावित्यादि । द्वा वजावी व्यामिश्रगोचरत्वाद् ग्राम्यारण्यचरणशीलखाद योनानिश्चितौ न ग्राम्यौ न जाङ्गला इत्यतः पृथगष्टभ्य उक्तौ 1
नन्वष्टृयोनीनां गणशः सामान्येनोक्ता गुणा एव किं सन्ति न विशेषेणेति ? अत आह— सामान्येनेत्यादि ॥ २३ ॥
गङ्गाधरः - केपाञ्चिन्न तु सव्र्वेषां गुणैर्व्विशेष उपदेक्ष्यते । तत्रादौ वारिचरेपच्यते - गुरुष्णेत्यादि । गुरूष्णस्निग्धमधुरा इति बहुवचनात् राजहंसमल्लिकधार्त्तराष्ट्र क्षुद्र हंसभेदेन हंससामान्यस्यैवते गुणाः ख्यापिताः । सुश्र तेऽपि गुरूष्णमधुरस्निग्धः स्वरवर्णेबलप्रदः । वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः ॥ इति आनूपवर्ग संघातचारिवेषूक्तम् ।
दर्शनेत्यादि । वत्तेकादिविष्किरेषु मध्ये वहीं दर्शनादीनां हिततमः | पित्तहरमपि बोद्धव्यम्, अत एव शरद्विधावप्युक्तम् - " उरभ्रशरभानू" इति । रक्तपित्तनिदाने तु " वराहमहिष" इत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् । योनाविति प्रसहाद्यष्टविधजातौ भिश्रगोचरत्वादिति कदाचिदानूपसेवनात् कदाचिद् धन्वसेवनात् कदाचिदुभयसेवनात, अजाव्योरनिश्चितयोनित्वमित्यर्थः ; अत्र, 'अनिश्चिते" इति योनिविशेषणम्, किंबा, अजा च अवी च एते अनिश्चिते; ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनात विष्किर गणे पठनीयः, नैवं, तित्तिरिजातिविशेषस्य धन्वानूपयोर्नियमेव निषेवणात् गुणनियम: पाय्र्यते कतुम्; अव्यजयोस्तु नियमोऽयं नास्ति, यतः, केचिदजावी धन्वमात्रचरे, केचिच्चानूपमात्रचरे, केचिचोभयमात्रचरे; तेन तयोर्नियमघरकृतो योनिभेदः कर्त्तुं न पार्थ्यते ॥ २३ ॥
चक्रपाणिः - केषाञ्चिदिति वक्ष्यमाणमयूरादीनां गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ।
;