________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[भमपानविधिः
चरक-संहिता। लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः। लघवः शीतमधुराः सकषाया हिता नृणाम् । पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे ॥ २२ ॥ विष्किरा वर्त्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः ॥ नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् । शरीरधातुसामान्यादनभिष्यन्दि वृहणम् ॥
मांसं मधुरशीतत्वाद् गुरु वृहणमाविकम् । विशेषतस्त्वाह-प्रसहानामित्यादि। मांसाशिनां प्रसहानां द्वीपिसिंहकव्याघ्रादीनां मांसं भिषक् जीर्णाशौग्रहणीदोषशोषार्तानां विशेषेण प्रयोजयेत् ॥२१॥
गङ्गाधरः-लावाद्य इत्यादि। लावायो वैष्किरी वर्गो न तु वर्तकादिः । प्रतुदाश्च जाङ्गलाश्च मृगाः सर्वे लघवः शीताश्च मधुराश्च सकषायाः पित्तोत्तरे वातमध्ये कफानुगे सन्निपाते नृणां हिताः॥२२॥ ___ गङ्गाधरः-विष्किरा इत्यादि। वत्तकाद्यास्तु विष्किराः प्रसहाल्पान्तरा गुणैरल्पभेदाः । गुरूष्णेत्यादिभिरुक्तः प्रसहस्य गुणैः किश्चिदल्पगुणाः।
अष्टानां वर्गाणां गुणानुक्त्वा च्छागगुणानाह-नातीत्यादि । आज मांसं नातिशीतं नातिगुरु नातिस्निग्धमदोषलश्च । नृणां शरीरधातुभिः सह सामान्याद् गुणसामान्यादनभिष्यन्दि च हणश्च। सुश्रुते तु-नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः । छगलस्वनभिष्यन्दी तेषां पीनसनाशनः ।। इति । तेषां ग्राम्याणां मध्ये। मन्दपित्तकफवेऽपि दोपलखव्याघातो नेष्यते । प्रशस्तदोषं लाति इत्यर्थात् । ___ मांसमित्यादि । आविकं मांसं मधुरशीतखात् गुरु हणमिति । सुश्र तेऽपि चोक्तम्-हणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु । मेदःपुच्छोद्भवं वृष्यमौरभ्रामांसादानां विशेषमाह-प्रसहानामित्यादि। जीर्णत्वेनाशःप्रभृतीनां चिरानुबन्धं दर्शयति । प्रतुदा इत्यत्र, तथा, जाङ्गला इत्यत्र चकारो लुप्तनिर्दियः ; कफानुगे इति च्छेदः ॥ २॥२२॥
चक्रपाणिः--शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात्, एतेन शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात् कर्फ न करोतीत्युक्तं स्यात्, आविकं मांसं मधुरशीतत्वेन
For Private and Personal Use Only