________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ अध्यायः] सूत्रस्थानम् ।
१०१५ प्रसह्य भक्षयन्त्येते प्रसहास्तेन संज्ञिताः । भूशया विलशायित्वादानपानूपसंश्रयात् ॥ जले निवासाजलजा जलेचर्य्याजलेचराः । स्थलजा जागलाः प्रोक्ता मृगा जङ्गलचारिणः ॥ विकीय्य विष्किराश्चैव प्रतुय प्रतुदास्तथा।
योनिरष्टविधा त्वेषां मांसानां परिकीर्तिता ॥ २० ॥ गङ्गाधरः-अथ यथैषां प्रसहादिसंज्ञा कृता, तदाह-प्रसहोत्यादि। प्रसह्य हठादादाय भक्षयन्तीति गवादयस्तेन प्रसह्य भक्षणेन प्रसहाः संशिताः॥ १॥ भूशया विले शायिखादिति भुवि गते शयितु शीलमेषामिति विलशायिखं तस्माच्छागादयो भूशयाः संशिताः॥२॥ आनूपोऽनूपसंश्रयात्। अनूपो जलसमीपदेशस्तत्र संश्रयाचरणस्थित्यादिकरणात् मृमरादिरानूपः संज्ञितः॥३॥ जले निवासाजलजा इति, जले जाता निवसन्तीति कूदियो वारिजा वारिशयाः संशिताः॥४॥ जले चाजलचरा इति । स्थले जाता एव जले चरन्तीति जले चरणशीलखात् हंसादयो जलेचरा वारिचारिणः संशिताः ॥ ५॥ स्थलजा जाङ्गलाः प्रोक्ता इति। स्थले जायन्ते इति जाङ्गलसंशिताः पृषदादयः प्रोक्ताः, यतस्ते मृगा जङ्गलचारिणः जङ्गले चरन्ति ॥ ६॥ विकीय्य विष्किराश्चैवेति । मण्डूकप्लुत्या भक्षयन्तीत्यनुवर्तते। विकीप चञ्चुचरणाभ्यां विक्षिप्य ये भक्षयन्तीति ते लावादयो वत्तकादयश्च विष्किराः संशिताः। वर्णागमाद्विष्किरेति रूपसिद्धिः॥७ प्रतद्य प्रतुदास्तथेति भक्षयन्तीत्यनुयत्त्या। प्रतुद्य बहुधा चञ्चुचरणाभ्याम अभिहत्य ये भक्षयन्ति ते शतपत्रादयस्तेन प्रतुदाः संशिताः॥८॥ इति तेषां गवादीनां मांसानामष्टविधा प्रसहादिभेदेन योनिः परिकीर्तिता। सुश्रुते तु मांसवगेश्वोपदिष्टः। तद्यथा-जलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा चटकाकारः पीतमस्तकः वाऐ इति लोके, कलविको ग्राम्यचटका, चटकस्तु देवकुलचटकः स्वल्पप्रमाणः । यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्वियोपदेशान्तरिभ्यो ज्ञेयानि ॥ १९ ॥
चक्रपाणिः-प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह-प्रसह्योति हठात्, आनूपानूपसंश्रयादिति पूर्वत्रासिद्ध विधेरनित्यत्वादानूपानूप इत्यत्र लोपस्य सिद्धत्वेनैव संहिता ज्ञेया। जलेचदिति जलवासिनामेव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम्। स्थलजा इत्युक्तर्गजादिष्वपि स्थल
For Private and Personal Use Only