________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१४ चरक-संहिता।
[अन्नपानविधिः शतपत्रो भृङ्गाराजः कोयष्टिर्जीवजीवकः । कैरातः कोकिलोऽत्यूहो गोपपुत्रः प्रियानुजः॥ लहाल?षको वज्रर्वटहा डिण्डिमानकः । जटी दुन्दुभिधाङ्कोर-लौहपृष्ठकुलिङ्गकाः ॥ कपोतशुकसारङ्गाश्चिरटीकङ्क यष्टिकाः। शारिकाः कलविङ्कश्च चटकोऽङ्गारचूड़कः ।
पारावतः पानविक इत्युक्ताः प्रतुदा द्विजाः ॥ १६ ॥ क्रकरः कयेर इति लोके। अबकरः क्रकरभेदः। वारडाश्च क्रकरविशेषाः। इति वत्तंकादयो विष्किरसंज्ञा भवन्ति ॥ १८ ॥ ___ गङ्गाधरः-शतपत्रेत्यादि। शतपत्रादयः पानविकान्ता द्विजाः प्रतुदसंशा भवन्ति । तत्र शतपत्रः काष्ठकुठारिकः। भृङ्गराजः प्रसिद्धः शुकपक्षिसमवर्णाकृतिः। कोयष्टिः कोरुक् इति ख्यातः। जीवजीवकः, विषदर्शने मृत्युः । कैरातकः कोकिलभेदः । कोकिलः प्रसिद्धः । अत्यूहः डाउकः । गोपपुत्रः स्वनामख्यातः । प्रियानुजो देशभेदे ख्यातः। लट्टा लटापक्षीति ख्यातः । लट्टषकः लाटषा पक्षीति ख्यातः। बभ्रः पिङ्गलपक्षी। वटहा वडहा पक्षी। डिण्डिमानकः स्वनामख्यातः। जटी जड़ापक्षी। दुन्दुभिधाकोरः दुधुयापक्षी। लौहपृष्ठश्च कुलिङ्गभेदः। कुलिङ्गकः वायइ इति लोके । कपोतो घुघुः। शुकः प्रसिद्धः । सारङ्गश्चातकः । चिरटी चिटाइ पक्षी। कङ्क: काउन् पक्षी। यष्टिका याइट पक्षी। शारिका शालिक-भयना-गाङ्गशालिकभेदात् त्रिविधा। कलविको गृहचटकः । चटको वनचटकः । अङ्गारचूड़कः वल्बुल इति लोके । पारावतः कपोतः। पानविकः कपोतभेद इति । प्रतुद्य भक्षयन्तीति प्रतुदसंज्ञा द्विजाः पक्षिणः उक्ताः । इति प्रतुदवर्गः ॥१९॥
वर्तिकाद् वर्तिकाया लाघवं स्याद् ; वहीं मयूरः ; शारपदेन्द्राभो मल्लकङ्कः, गोनों घोड़ाकक इति ख्यातः, क्रकरः प्रसिद्धः। लावादिवर्तिकादिगणद्वयकथनं गुणभेदार्थम् ॥ १८॥
चक्रपाणिः--शतपत्रः काटकुक्क टकः, भृङ्गराजः प्रसिद्धो भ्रमरवर्णः, कोधिः कोड़ा इति ख्यातः, जीवञ्जीवको विषदर्शनमृत्युः, अत्यूहो डाहुकः, दात्यूह इति प्रसिद्धः पाठः, लटा फेञ्चाको रक्तपुष्छाधोभागः, लट्टषकोऽपि तद्भदः, डिण्डिमानक डिण्डिमवत्कटध्वनिः, कुलिङ्ग इति वन
For Private and Personal Use Only