________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१६
चरक-संहिता। ( अमपानविधिः जाङ्गलाश्चेति षण्मांसवर्गाः, तेषां वर्गाणामुत्तरोत्तर प्रधानतमाः। ते पुनः द्विविधाः-जाङ्गला आनूपाश्चेति। तत्र जाङ्गलवगोऽष्टविधः, तद्यथा-जङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पणेमृगा विलेशया ग्राम्याश्चेति । तेषां जङ्घालविष्किरी प्रधानतमो,. तत्रैणहरिणयकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जाला मृगाः॥१॥ लावतित्तिरिकपिञ्जलवीरवत्तिकावत्तेकनप्तृकावातीक चकोर-कलविङ्क-मयरक्रकरोपचक्रक-कुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरराहूकयवलकप्रभृतयो जाङ्गला विष्किराः ॥२॥ कपोतपारावत-भृङ्गराज--परभृत-कोयष्टिककुलिङ्ग--गृहकुलिङ्ग गोक्षोड़क डिण्डि-. मानकशतपत्रक-मातृनिन्दकभेदाशिशुकासारिकाअबल्गुलीगिरिशालंकालसुगृही. खञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतुदाः॥३॥ सिंहव्याघ्रटकतरष्टक्षद्वीपिमार्जार शृगालमृगेारुक प्रभृतयो गुहाशयाः ॥४॥ काककककुररचापभास-शशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ॥५॥ मदगुमूषिकक्षशायिकाऽवकुशपूतिघासवानरप्रभृतयः पणेमृगाः ॥ ६॥ श्वाविच्छल्लकगोधा-शश-वृषदंश लोपाक-लोमश-कर्णकदली-मृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्र प्रभृतयो विलेशयाः॥७॥ अश्वाश्वतरगोखरोष्ट्रवस्तोरभ्रमेदापुच्छकप्रभृतयो ग्राम्याः॥८॥ जाङ्गलानामेवमष्टयाभेदकथनं वगेशो गुणभेदोपदेशार्थम् । तद् यथा-जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहराः तीक्ष्णा या वस्तिशोधनाश्च ॥१॥ विष्किरा लघवः शीतमधुराः कषाया दोषोपशमनाथ ॥२॥ प्रतुदाः, कषायमधुरा रुक्षाः फलाहारा मरुत्कराः। पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः॥३॥ गुहाशयाः, मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः। उष्णवीय्यो हिता नित्यं नेत्रगुह्य विकारिणाम् ॥४॥ प्रसहाः, एते सिंहादिभिः सर्वे समाना वायसादयः। रसवीय्य विपाकेषु विशेषाच्छोषिणे हिताः ॥५॥ पर्णमृगाः, मधुरा गुरवो वृष्याश्चक्षष्याः शोषिणे हिताः । सृष्टमूत्रपुरीषाश्च कासाशेःश्वासनाशनाः॥६॥ विलेशयाः, वर्गों मूत्रं संहतं कुय्यु रेते, वीय्ये चोष्णाः पूर्ववत् स्वादुपाकाः । वातं हन्युः श्लेष्मपित्तश्च कुय्युः, स्निग्धाः कासश्वासकार्यापहाच ॥७॥ ग्राम्या वातहराः सर्वे ,हणाः कफपित्तलाः। मधुरा रसपाकाभ्यां दीपना वलवर्द्धनाः ॥८॥ इति । इत्यष्टविधा जाङ्गलाः। आनूपास्तु पञ्चविधा उक्ताः, जातेषु प्रसक्तिः स्यादित्याह-जाङ्गलचारिण इति। विकीर्येत्यन्त्र भक्षयन्तीति शेषः। एवं प्रतुत्यत्र अपि, प्रतुद्योति बहुधाऽभिहत्य ॥२०॥
HTHHTHH
For Private and Personal Use Only