________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ]
सूत्रस्थानम् ।
कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः । शुक्तिशङ्घोद्रकुम्भीर - चुलुकीम करादयः ।
इति वारिशयाः प्रोक्ताः
-॥ १४ ॥
- वक्ष्यन्ते वारिचारिणः । हंसः क्रौञ्च बलाका च वकः कारण्डवः प्लवः ॥ शगरी पुष्कराश्च केशरी माणतुण्डिकः । मृणालकण्ठो मदगुश्च कादभ्यः काकतुण्डकः ॥
१०११
हरिणः । रुरुहुशृङ्गो हरिणः ।
खड़गो गण्डारः, गवयो गोसदृशः पशुः, न्यङ्क हे इति सर्व्वे मृगा आनूपाः । इत्यानुपवर्गः ।। १३ ।। गङ्गाधरः - कूम् इत्यादि । कूम्र्म्मादयो वारिणि जायन्ते शेरत इति वारिशया उच्यन्ते । तत्र द्विधित्रिविधो वा कमक्षुद्रकपठकच्छपभेदात् । कर्कटकः कटः । मत्स्यो रोहितादिः । तिमिङ्गिलः स्वनामख्यातः समुद्रजः । शुक्तिशङ्खौ प्रसिद्धौ । उद्र उदविड़ालः प्रायो मत्स्यभुक् । चुलुकी गृहच्छिशुमारः । आदिना ग्राहादयः । इति वारिशयाः प्रोक्ताः । इति वारिशयवर्गः ॥ १४ ॥
गङ्गाधरः-- अथ वारिचारिणो वक्ष्यन्ते -- हंस इत्यादि । हंसादयः खगा वारिणि चरन्तीति वारिचारिणो वारिचरसंज्ञा भवन्ति । तत्र हंसो राजहंसादिचतुर्व्विधः । क्रौञ्चो नाम वृहद्वकः कौच इति ख्यातः । बलाका काणवकी । वकः शेतवकः । कारण्डवः पानीयकौड़ इति ख्यातः । पुत्रो भेयापक्षी । शरारी पक्षी प्रसिद्धः । पुष्करारी नारालीपक्षी । केशरी दीर्घालीति लोके पक्षी । मातुण्डिकः मातुण्डी पक्षी । मृणालच मद्गुश्च पानीयकौड़ी प्रकारपक्षिविशेषः ।
For Private and Personal Use Only
चक्रपाणिः- शिशुमारो गोतुण्डनक्रः, तिमिङ्गिलः सामुद्रो महामत्स्यः, शुक्तिर्मुक्ताप्रभवो जन्तुः, उद्रो जलविद्दालः, कुम्भीरो घटिकावान्, चुलुकी शुशु इति ख्यातः । शिशुमारादीनां मत्स्येन ग्रहणे प्राप्ते विशेषव्यवहाराथ पुनरभिधानम् ॥ १४ ॥
चक्रपाणिः - हंसश्चतुर्व्विधोऽपि राजहंसादिर्ग्राह्यः क्रौञ्चः कोञ्च इति ख्यातः, वकः पाण्डुरपक्षः, बलाका शुक्ला, कारण्डवः काकवकः, प्लवः स्वनामप्रसिद्धः शरारिः शरालीति लोके, महू :