________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भन्नपानविधिः
चरक-संहिता। शशनी मधुहा भास-गृध्रोलूककुलिङ्गकाः । धूमिका कुररश्चेति प्रसहा मृगपक्षिणः ॥ ११ ॥ श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुनीमृगः । कूर्चिका चिल्लिटो भेको गोधा शल्लकगण्डको। कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः॥ १२॥ स्मृमरश्चमरः खड़गो महिषो गवयो गजः ।
न्यङ्कर्वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ॥ १३ ॥ शशनी पक्षिभेदो जाड़िरिति ख्यातः । मधुहा महुआ नाम पक्षिभेदः। भासो मत्स्यभक्षः चिल इति ख्यातः पक्षी। कुलिङ्गको वयइ इति ख्यातः पक्षी हरिद्रावर्णमस्तको वनचटकः । धूमिका चटकः । कुररः कुरा पक्षी, यस्तु नखेन विद्धा मत्स्यान् जलादुद्धरति । इति वान्तादवज श्येनादयः पक्षिणः । इति प्रसहजातिः॥११॥ ___ गङ्गाधरः-श्वेतादयो भूमिशयसंज्ञाः, भूमौ गरौं शरते इति, उच्यन्ते विलेशया इति । श्वेतवर्णः स्वनामख्यातः । श्यामः सामापक्षी। चित्रपृष्टः स्वनामख्यातः, देशविशेषे ख्यातः । कालकः क्षुद्रचटकः । काकुनीमृगः काउनिमृगः । कूच्चेिका । चियामत्स्यः । चिल्लिटो लोके चियाड़ इति। शल्लकः सेजाड़ इति लोके । गण्डकः स्वर्णगोधा। कदली कदलीहहः। नकुलः । श्वाविच शल्लकिमभेदः वृहदसेज्जड़ इति । इत्येते भूमिशया विलेशयाः गुहाशयाश्चीच्यन्ते। इति भूशयवर्गः॥१२॥
गङ्गाधरः-समर इत्यादि। सृमरादिरुरुपय्यन्ता मृगा आनपाः, अनूपदेशे चरन्तीति आनूपसंज्ञा भवन्ति । तत्र सृमरः महाशूकरः, चमरः केशवल्लाङ्कलः, वान्तादः कुक्करः, चासः ( चापः ) कनकवायस इति ख्यातः, शशनी पाञ्जिरिति ख्याता, भासो भस्मवर्णपक्षी, शिखावान् प्रसहादः, कुलिङ्गः कालचटकः ॥११॥
चक्रपाणिः--काकुनीमृगो मालुयासर्प इति ख्यातः, तस्य श्वेत इत्यादयश्चत्वारो भेदाः ; कुर्चीका सङ्क,चः ; चिल्लिटश्चियारः, शलको महाशलकः, शल इति ख्यातः ; गण्डको गोधाभेदः, कदली कदलीहट्ट इति ख्यातः, श्वावित् सेजक इति स्वातः ॥ १२॥
चक्रपाणिः-सृमरो महाशूकरः, चमरः केशमृत्युः, खङ्गो गण्डकः, गवयो गवाकारः, न्यकुहरिणः, रुरुर्बहुशृङ्गो हरिणः ।। १३ ॥
For Private and Personal Use Only