________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। अन्नपानविधिः
१०१२
चरक-संहिता। उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी। आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥ रोहिणी कामकालो च सारसो रक्तशीर्षकः। चक्रवाकस्तथा चान्ये खगाः सन्त्यम्बुचारिणः ॥ १५ ॥ पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृकः । शशोरणौ कुरङ्गश्च गोकर्णः कोकारकः ॥ चारुष्को हरिणणौ च सम्बरः कालपुच्छकः । ऋष्यश्च वरपोतश्च विज्ञ या जाङ्गला मृगाः ॥ १६ ॥
कादम्बस्तादृशपक्षी । काकतुण्डकः श्वेतपानीयकौड़ी। उत्क्रोश उच्चःक्रोशकृत्, वृहचिल इति लोके । पुण्डरीकाक्षः पुण्डरियापक्षिभेदः । मेघरावो मेघनादपक्षी। अम्बुकुक्क टी जलकुककुटः। आरा पक्षिविशेषः स्वनामख्यातः। नन्दीमुखी वाटी च पक्षिभेदो खनामख्यातो। सुमुखाः सहचारिणश्च रोहिणी च काम काली च पक्षिभेदा देशविशेषे तत्तन्नामानः। सारसः प्रसिद्धः । रक्तशीर्षकः । चक्रवाकप्रकारः चक्रवाकः प्रसिद्धः। तथान्ये कद्दमखचादयः । इति वारिचरपक्षिवगः ॥१५॥
गङ्गाधरः-- पृषत इत्यादि । पृषदादयो मृगा जाङ्गलसंज्ञा भवन्ति । नत्र पृषत् हरिणविशेषः । शरभ उष्ट्रप्रमाणमहाशृङ्गपशुभेदः। रामो हिमालये महामृगः । श्वदंष्ट्रः चतुर्दष्ट्रः कात्तिकपुरे प्रसिद्धमृगः। मृगमातृकः पृथदरगवाकृति वृहद्धरिणः। शशः प्रसिद्धः । उरणः शशकविशेषः । कुरङ्गो हरिणविशेषः । गोकणः गोम्बाहरिणः । कोटकारश्च चारुष्कश्च हरिणश्च हरिणभेदाः । पानीयकाका, कादम्बः कलहंसः, काकतुण्डकः श्वेतकारण्डवः, उत्क्रोशः कुरल इति ख्यातः, पुण्डरीकाक्ष: पुण्डरः , मेवरावो मेघनादः, मेघरावश्चातक इत्यन्ये, तन्न, तस्य वारिचरत्याभावात् ; अम्बुकुक्क टी जलकुक्कुटी, आरा स्वनामख्याना, नन्दीमुवी पत्राटी सारसः प्रसिद्धः, रक्तशीर्षक: सारसभेदो लोहितशिराः ; अम्बुचारिण इति जले प्लवन्त इत्यर्थः ॥ १५॥
चक्रपाणिः-पृपतश्चित्रहरिणः ; शरभोऽयपाद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुप्पादः काश्मीरे प्रसिद्धः, रामः हिमालये महामृगः, श्वदंष्ट्रा चतुर्दष्टा कार्तिकपुरे प्रसिद्धः, मृगमातृका स्वरुपा पृथूदरा हरिणजातिः, कुरङ्गो हरिणभेदः, गोकर्णो गोमुखहरिणविशेषः, हरिणस्ताम्रवर्णः,
For Private and Personal Use Only