________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००८
चरक-संहिता। [अन्नपानविधि: मधुराः शीतला गुळ्यों वलन्यो रुक्षणात्मिकाः । सस्नेहा बलिभिर्भक्ष्या विविधाः शिम्बिजातयः ॥ शिम्बी रुक्षा कषाया च कोष्ठवातप्रकोपनी। न च वृप्या न चक्षुण्या विष्टम्य च विपच्यते ॥ आढ़को कफपित्तन्त्री वातला कफवातनुत् । अवल्गुजः सैड़गजो निष्पावो वातपित्तलाः॥ काकाण्डोमात्मगुप्तानां माषक्त् फलमादिशेत् । द्वितीयोऽयं शमीधान्य-वर्गः प्रोक्तो महर्षिणा ॥ १०॥
इति शमीधान्यवर्गः।२।। दन्योऽग्निमेधाजननोऽल्पमत्रः स्वच्योऽथ केश्योऽनिलहा गुरुश्च। तिलेषु सर्वप्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये । इति ।
शमीधान्यसाच्छिम्बगुणानाह-मधुरा इत्यादि। विविधाः शिम्बिजातयो मधुराश्च शीतलाश्च गुब्व्यश्च बलनाश्च रुक्षणात्मिकाश्च । ताः सस्नेहाः स्नेहेन संस्कृता बलवद्भिर्भक्ष्या गुरुवाच। सुश्रु ते च-रुक्षः कषायो विषशोफशुक्र. वलाशदृष्टिक्षयकृद विदाही। कटाविपाके मधुरस्तु शिम्बः प्रभिन्न विष्मारुतपित्तलश्च ।। सितासिताः पीनकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः । यथादितस्ते गुणतः प्रधाना झंयाः कटूष्णा रसपाकयोश्च ॥ सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बवल्वीप्रभवास्तु शिम्बाः। ज्ञ या विपाके मधुरा रसे च वलप्रदाः पित्तनिवहेणाश्च ॥ विदाहवन्तश्च भृशञ्च रुक्षा विष्टभ्य जीर्यन्त्यनिल प्रदाश्च । रुचिप्रदाश्चैव सुदुज्जेराश्च सव्य स्मृता वैदलिकाश्च शिम्बाः ॥ इति ।
शिम्बीगुणमाह--शिम्बी वैदलयोनिमु गादीनां शिम्बी अपरिणतावस्थिकी शिम्बीत्युच्यते। विदाहवन्तश्चेत्यादिना प्रोक्ताः।
शिम्बखादाढ़कीगुणमाह --आढ़कीत्यादि । कफवातयोमिलितयोनौदिनी, नातिवातला। अवल्गुजः सोमराजीशिम्बः। एड़गजस्य शिम्बः। निष्पावः शिम्बश्च । एते वातपित्तलाः।
काकाण्डेत्यादि। काकाण्डः कृष्णशिम्बः। उमा अतसी, आत्मगुप्ता विविधाः शिम्बिजातय इति, कृष्णपीतरक्त श्वेतकुशिम्बिभेदा इत्यर्थः । शिम्बी रुक्षेत्यादि केचित् पठन्ति । आढ़की तुवरी, वातलेति च्छेदः ; कफवातनुदित्यवल्गुजैड़गजयोर्वीजस्य गुणः ।
For Private and Personal Use Only