________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् । चणकाश्च मसूगश्च खण्डिकाः सहरेणवः । लघवः शीतमधुराः सकपाया विरुक्षणाः ॥ पित्तश्लेष्मणि शस्यन्ते सूपेवालेपनेषु च । तेषां मसूरः संग्राही कलायो वातलः परः ॥ स्निग्धोषलो मधुरस्तिक्तः कषायः कटुकस्तिलः । स्वच्यः केश्यश्च वल्यश्च वातनः कफपित्तकृत् ॥
चणका इत्यादि-खण्डीका वतु लकलाया। हरेणवश्च वत्तु लकलायभेदा न तु सतीनः। स च बत्तुलकलायविशेषो न तु त्रिपुटकलायः। सुश्रु ते सतीनहरेप्योः पृथकपाठात्। तदयथा-वातलाः शीतमधुराः सकपाया विरुक्षणाः । कफशोणितपित्तनाश्चणकाः पुंस्वनाशनाः।। हरेणवः सतीनाश्च विशे या बद्धवच्चेसः । सूपेष्वालेपनेषु च शस्यन्ते, आलेपनेषु व्रणादीनामिति। चणकादीनां मध्ये ममूरकलाययो विशेषमाह --तेषामित्यादि । तेषां चणकखण्डीकममूरहरेणूनां मध्ये ममुरः संग्राही, कलायः खण्डीको वातलः परः। सुश्र ते च -कपाया मधुराः शीताः कटुपाका मरुत्कराः । वद्धभूत्रपुरीषाश्च पित्तश्लेष्महरा. स्तथा ॥ मद्गादिसामान्यगुणास्तत्र विशेषगुणाः । विपाके मथुराः प्रोक्ता ममूरा बद्धवच्चेसः। मुकुटकाः क्रिषिकराः कलायाः प्रचुरानिलाः। आढ़की कफपित्तन्नी नातिवातप्रकोपणी॥ इति ।
शमीधान्यखात् तिलगुणमाह - स्निग्ध इत्यादि। तिलः कृष्णादिजातिः । स्निग्यश्चोष्णश्व वीव्यात, रसतस्तु मयरतिक्तकषायकटुकः । खच्यस्वचे हितः, केशाय हितो वलाय हितश्च प्रभावात् । तिक्तकषायकटुकवेऽपि स्निग्धोष्णवीर्याद्वातघ्नः। तथावेऽपि प्रभावान् पित्तकफकृत् । स्निग्धेन कफकरववदुष्णवेन कफनखापत्त्यास्तथोप्णवेन पित्तकरवक्त् स्निग्धखेन. पित्तघ्न खापत्याश्च । सुश्र ते तु-इषतकषायो मधुरः सतिक्तः संग्राहकः पित्तकर. स्तथोष्णः। तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन एव पथ्यः॥
मुकुटको मोठ इति ख्यातः ; चणक: प्रसिद्धः ; खण्डिका त्रिपुटकलायः, हरेणुवालकलायः । कलायो वातल इति त्रिपुटकलायः। तिलगुणो यद्यपि विशेषेण नोक्तः, तथापि प्रधाने कृष्णतिले शेयः, उक्त हि सुश्रुते-"तिलेषु सर्वेष्वसित: प्रधानो, मध्यः सितो हीनतरास्ततोऽन्ये” इति ।
For Private and Personal Use Only