________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [भन्नपानविधिः राजमाषः सरो रुच्यः कफशुक्राम्लपित्तकृत् । तत् स्वादुर्वातलो रुक्षः कषायो विशदो गुरुः ॥ उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः। कुलत्था ग्राहिणः कास-हिकाश्वासार्शसां हिताः॥ मधुरा मधुराः पाके ग्राहिणो रुक्षशीतलाः । मुकुष्टकाः प्रशस्यन्ने रक्तपित्तवादिषु ॥
माषजात्या राजमाषगुणमाह-राजमाषो वरवटीति लोकेऽलसात्राभिधानान्तरम् । सरः सारकः । गुरुस्वादुखेऽपि रुक्षविशदवीाद्वातलः । द्वं हि वीय्ये गुरुवीव्यविरोधिनी बलवती। स्वादुकषायखान्मधुरपाकः। स्वल्प इतरमधुरद्रव्यापेक्षया। सुश्रु ते तु-कपायभावान्न पुरीपभेदी न मूत्रलो नैव कफस्य हर्ता । वादविपाके मधुरोऽलसान्त्रः सन्तर्पणः स्तन्यरुचिप्रदश्च । आरण्यमापा गुणतः प्रदिष्टा रुक्षाः कपायाश्च विदाहिनश्च । इति । अलसात्रो राजमापः।
उष्णा इत्यादि-कुलत्था उष्णाः कपायरसाः पाके अम्लाः प्रभावात् । कफशुक्रानिलापहाः । ग्राहिणः । कासादिहिताः। सुश्र ते तु-उष्णः कुलत्थो रसतः कपायः कटुर्विपाके कफमारुतघ्नः। शुक्राश्मरीगुल्मनिमूदनश्च संग्राहकः पीनसकासहारी॥ आनाह मेझोनुदकीलहिका-श्वासापहः शोणितपित्तकृच्च । कफस्य हन्ता नयनामयनो विशेषतो वन्यकुलत्थ उक्तः ॥ इति ।।
मधुरा इत्यादि । मुकुष्टकाः कृष्णमुद्दा न तु वनमुद्राः। सुश्रुते प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः। मुकुटकाः क्रिमिकरा इति पृथक् पाठात्। मुकुष्टका रसपाकयोर्मधुरा अपि प्रभावाद्वीप्यतो रुक्षशीतलाः। तस्माद ग्राहिणः । रक्तपित्तादिषु तस्माच्छस्यन्ते ।
दर्शयति, शुक्रसुतिकरणञ्च वृष्यशब्देनोच्यत एव, वचनं हि...-"शुक्रसुतिकरं किञ्चित् किञ्चिच्छुकविवर्द्धनम् । स्रुतिवृद्धिकरं किञ्चित् त्रिविधं वृप्यमुच्यते ॥ तदेवं सम्पूर्णवृष्यत्वं मापे बोद्धव्यम् । राजमापगुणकथने तत्स्वादुरिति माषवत् स्वादः, किंवा, रुक्षश्चेत्यादि पाठान्तरम्। उष्ण इत्यादिना कुलत्थगुणः, कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति, तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि, अत एव तन्खान्तरे-वन्यकुलत्थस्तवच्च विशेपात् नेत्ररोगनुद्' इत्युक्तम् ।
For Private and Personal Use Only