________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१००५ कषायमधुरो रुक्षः शीतः पाके कटुलघुः । श्लेष्मपित्तप्रशमनो मुद्गः सूप्योत्तमो मतः ॥ वृष्यः परं वातहरः स्निग्धोष्णमधुरो गुरुः । बल्यो बहुमलः पुंस्त्वं माषः शीघ्र ददाति च ॥ गङ्गाधरः-क्रमिकवात् शमीधान्यवर्ग उच्यते । सूपयोनिः शमीधान्यमुच्यते । तत्र प्राधान्यादादो मुद्गगुणानाह--कषायमधुर इत्यादि। मूप्योत्तमो मुद्गः कषायमधुरो रसे वीर्य रुक्षो लघुश्च शीतश्च । पाके कटुः प्रभावात् । श्लेष्मपित्तप्रशमनश्च तस्माद्रक्तप्रशमनश्च । सूपस्यायं मूप्यः। सुश्रुते तु-मुद्गवनमुद्गकलायमुकुष्टकममूरमङ्गल्यचणकसतोनत्रिपुटकहरेवाढ़कीप्रभृतयो वैदलाः। कषायमधुराः शीताः कटुपाका मरुत्कराः। बद्धमूत्रपुरीपाश्च पित्तश्लेष्महरास्तथा ॥ नात्यर्थ वातलास्तेषु मुद्दा दृष्टिप्रसादनाः । प्रधाना हरितास्तत्र वन्या मुद्रसमाः स्मृता ॥ इति। अन्यत्र च -कृष्णमुद्गा महामुद्गा गौरह रितपीतकाः। श्वेता रक्ताश्च निर्दिष्टा लघवः पूर्वपूर्वतः ॥ इति। एवंगुणविशेषा अपि मुद्ग जातितः किश्चिद्भ दो नाद्रियते कुशलैः। तस्मान्मुद्गसामान्यगुणा इहोक्ता न विशेषाणाम्। - वृष्य इत्यादि। परमुत्कृष्टं वृष्यो मापस्तस्मात् पुस्वं शीघ्र ददाति । परमुत्कृष्टं वातहरश्च निग्योष्णमधुरवात् गुरुवाच्च । बल्यश्च तस्मात् । बहुमलश्च प्रभावात् । सुश्रु ते च-“मापो गुरुभिन्नपुरीपमूत्रः स्निग्धोःणवृष्यो मधुरोऽनिलघ्नः । सन्तपणस्तन्यकरो विशेपाद वलप्रदः शुक्रकफावहश्च” ॥ इति । शुक्रद्धिविरेककृदिति कश्चिदाह। परं वृष्य इत्युक्त्या शुक्र तिद्धिकरदृष्यवं मापस्योक्तम् । वृष्यं हि त्रिविषमुक्तं तत्रान्तरे---शुक्रस तिकरं किञ्चित् किञ्चिच्छुक्रविवर्द्धनम् । स तिवृद्धिकरं किश्चित् त्रिविधं वृष्यमुच्यते ॥ इति ।। समाप्त इति वक्तव्ये समाप्यत इति यत् करोति, तेन ज्ञापयति-यत् बहुदव्यत्वान्नार्य समाप्तो गुणः, किन्तु यथाकथञ्चित् प्रसिद्धगुणकथनेन समाप्यते ; एवमन्यत्रापि पष्ठो वर्ग: समाप्यत इत्यादी व्याख्येयम् ॥५॥
इति शूकधान्यवर्गः।। चक्रपाणिः-धान्यत्वेन शमीधान्यवर्ग निरूपयितव्ये प्रधानत्वात् मुद्गो निरुच्यते, सूप्यं सूपयोग्यं शमीधान्यं, तत्रोत्तमः सूप्योत्तमः। वृष्य इत्यादिमाषगुणे, स्निग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् ; एवमन्यत्राप्येवंजातीये व्याख्येयम्, पुंस्वं शुक्र, शीघ्रमितिवचनेन शुक्रतिकरवलक्षणमपि वृष्यत्वं मापस्य
For Private and Personal Use Only