________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। {पानविधिः रुक्षः कषायानुरसो मधुरः कफपित्तहा। मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः ॥ ८॥ सन्धानकृद्वातहरो गोधूमः स्वादशीतलः। जीवनो वृहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥ नान्दीमुखी मधुली च मधुरस्निग्धशीतले । इत्येवं शूकधान्यानां पृवों वगेः समाप्यते ॥६॥
' इति शूकधान्यवर्गः । १ । ऽतिरुक्षः। कषायानुमधुरो रसोऽस्य । पाके च मधुरः कफपित्तहा रुक्षवीर्य्यात् । मेदःक्रिमिविषघ्नः प्रभावात्। वल्यश्च । अपरे च यवा एतद्गुणानुसारेण गुणकम्भ्यामुन्नेया आभ्यामप्राधान्यादनुक्तत्वेनाभ्यां किश्चिन्यूनतरगुणा वाच्याः। उक्तश्च सुश्रुते-एभिर्गुणैहींनतरांश्च किश्चिद् विद्यादयवेभ्योऽतियवान विशेषैरिति ॥८॥
गङ्गाधरः-गोधूममाह-सन्धानकृदित्यादि। गोधूमः सन्धानकृद भग्नानां संश्लेषकृत्। वातहरः प्रभावात् । स्वादुशीतलखाच्च पाके च मधुरः। तस्माज्जीव नश्च हणश्च दृष्यश्च । स्थैरयकरः स्थिरगुणवात् । गोधूमविशेषाणाञ्च गुणानाह -नान्दीमुखीत्यादि। गोधूमविशेपो द्वे नान्दीसुखी-मधुलिके मधुरे स्निग्ध. शीतले भवतः। सुश्रु ते तु कुधान्यमध्ये पठिखा सामान्यत उक्ताः ---उष्णाः कषायमधुरा रुक्षाः कटु विपाकिनः। श्लेष्मना बद्धनिष्यन्दा वातपित्तप्रकोपणाः ॥ इति। ततो विरोधः परिहार्थः कुधान्यविशेषौ हिते नेमे द्वे गोधूमप्रकरणे पठितखादिति । वर्ग समापयति -इत्ययमित्यादि। पूवो वगेः शूकधान्यवर्गः समाप्यते ।। ९ ।।
इति शूकधान्यवर्गः ।। तेन भत्राप्य गुरुरिति मन्तव्यम्, बल्यञ्च स्रोतःशुद्धिकरत्वात् प्रभावाद वा। अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव, तेन सुश्रुते-"कफपित्तहन्ता" इत्युक्तमुपपन्नम् ॥ ८॥
चक्रपाणिः-गोधूमस्य स्वादशीतस्रिग्धादिगुणोपयोगात् श्लेष्मकर्तृत्वं भवत्येव, अत एव सुश्रुते-“श्लेष्मकरः” इत्युक्तम् । यत तु वसन्ते कफप्रधाने यवगोधूमभोजनम् इत्युक्त, तत् पुराणगोधूमाभिप्रायेण ; पुराणश्च गोधूमः कर्फ न करोतीत्युक्तमेव “प्रायः श्लेष्मलं मधुरम्” इत्यादिना ग्रन्थेनात्रैवाध्याये। नान्दीमुखी यविका, मधुली गोधूमभेदः। इत्ययमत्र 'इति' प्रकारार्थः ।
For Private and Personal Use Only