________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्याय
सूत्रस्थानम् । रुक्षः शीतो गुरुः स्वादुर्बहुवातशकृट् यवः । स्थैय्येकृत् सकषायश्च बल्यः श्लेष्म विकारजित् ॥
सवें तृणसम्भवाः। सुश्रुते च अथ कुधान्यवर्ग:-कोरदूषकश्यामाकनीवार-शान्तनु-तुवरोद्दालक प्रियङ्ग-मधूलिका-नान्दीमुखीकुरुविन्द-गवेधुकवरुकतोयपर्णीमुकुन्दक-वेणुयवप्रभृतयः। उष्णाः कषायमधुरा रुक्षाः कटुविपाकिनः। श्लेष्मन्ना बद्धनिष्यन्दा वातपित्तप्रकोपणाः ।। कपायमधुरास्तेषां शीताः पित्तापहाः स्मृताः। कोद्रवश्व सनीवारः श्यामाकश्च सशान्तनुः ।। कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः। यथोत्तरं प्रधानाः स्यू रुक्षाः कफहराः स्मृताः ॥ मधूली मधुरा शीता स्निग्धा नान्दीमुखी तथा। विशोषी तत्र भूयिष्टं वरुकः समुकुन्दकः ॥ रुक्षा वेणुयवा ज्ञ या वीय्योष्णाः कटुपाकिनः। बद्धमत्राः ककहराः कपाया वातकोपनाः ।। इति ।। शूकधान्येषु यवादीनामोदनकल्पनानहखादोदनकल्पनानि शाल्यादीनुत्त्वा यवादीनाहरुक्ष इत्यादि। यवो रुक्षश्च शीतश्च वीर्येण रसे स कपायः स्वादुमधुरः। बहुवातशकृत । अधोवायुसरणं बाहुल्येन भवति, शकृत्सरणश्च बाहुल्येन प्रभावात् । वल्यश्च। विपाकोऽस्य मधुर एव कषायसहितवाद् यथान्येषां केवलमधुराणां मधुरो विपाको न तथा, तन मध्यलघुपाकः शीतवीर्यात् पित्तजित् । श्लेष्मविकारजयश्च प्रभावात् । उक्तश्च सुश्र ते----यवः कषायो मधुरो हिमश्च कदर्विपाके कफपित्तहारी। व्रणेषु पथ्यस्तिलवच्च नित्यं प्रवद्धमूत्रो बहुवातवर्चाः ॥ स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च। मेदोमरुत्तृढरणोऽतिरुक्षः प्रसादनः शोणितपित्तयोश्च ॥ इति । अत्र कटुः पाकेऽनतिलघुः ॥७॥
गङ्गाधरः--यवविशेषो वेणुयवो गुणकर्मभ्यामुच्यते-रुक्ष इत्यादि । रुक्षो
ओडिका, गवेधुको धुलुञ्चः, ---स ग्राम्पारण्यभेदेन द्विविधः, प्रशातिका ओड़िफैव स्थलजा रक्तशूका, अभ्भःश्यामाका जलजा ओड़िका लोके झरा इत्युच्यते, प्रियङ्गः कायनीति प्रसिद्धा, मुकुन्दो वाक सग इति, चारुतः शागीजम्, वरकः सामवीजम्, शिविरस्तीरभुक्तो सिद्धक इत्युच्यते, जूर्णा ह्वो जोनार इति ख्यातः ॥ ७ ॥
चक्रपाणिः-यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात्। किंवा, सुश्रुते यवो लघुः पठितः,
For Private and Personal Use Only