________________
Shri Mahavir Jain Aradhana Kendra
१००२
www.kobatirth.org
चरक संहिता |
सकोरदूषः श्यामाकः कषायमधुरो लघुः । वातलः श्लेष्म पित्तघ्नः शीतसंग्राहिशोषणः ॥ हस्तिश्यामाकनीवार- तोयपर्णीगवेधुकाः । प्रशातिकाम्भःश्यामाक- लौहिताणुप्रियङ्गवः ॥ मुकुन्दो झिन्टिरमुख वरुकावर कास्तथा । शिविशेत्कटजूर्णाख्याः श्यामाकसदृशा गुणैः ॥ ७ ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
पित्तघ्नाः कषायाः कटुकान्वयाः । किश्चित्सतिक्तमधुराः पवनानलवर्द्धनाः ॥ कैदारा मधुरा goat बल्याः पित्तनिवर्हणाः । ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥ रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । अदाहिनो दोषहरा बल्या मूत्रविवर्द्धनाः ॥ शालयश्छिन्नरूढ़ा ये रुक्षास्ते बद्धवच्चसः । तिक्ताः कषायाः पित्तघ्नाः लघुपाकाः कफापहाः । विस्तरेणायमुद्दिष्टः शालिवर्गों हिताहितः । इति । इह शालिशब्दः शालिषष्टिकत्रीहिवचनः, न केवलहैमन्तिकधान्यवचनः, शालिवर्गशब्दस्य शालिशब्देन शाल्यादीनां त्रयाणां संग्रहादिति ॥ ६ ॥
गङ्गाधरः- अथ कुधान्यगुणानाह - सकोरदूष इत्यादि । कोरदूषः कङ्गः श्यामाकः श्यामाघासस्य वीजं, कषायमधुरः, कषायलघुवाद्वातलः, श्लेष्मघ्नः शीतकषायमधुरत्वात् पित्तन्नः, लघुवीय्यवाद्वातलः इलेप्मन्नः शीतवीय्यत्वात् पित्तघ्न्नः, कषायलघुखाद् ग्राही च शोषणच । हस्तिश्यामादयस्तु गुणैः श्यामाकसदृशा भवन्ति । हस्तिश्यामाको बृहच्यामाघासवीजम् । नीवारः तोयपर्णी गवेधुकः प्रशातिका अम्मः श्यामाकः लोहिताणः प्रियङ्गुः मुकुन्दः वाकसतृणः झिन्टिरमुखी वरुका वरकः शिविरः इत्कटः नृर्णाख्याः
( अन्नपानविधिः
पाटलो प्रीहिविशेषः तन्त्रान्तरे पठ्यते - ' त्रिदोषस्त्वेव पाटल:' इति । सुश्रुते पाटलशब्देन एतदव्यतिरिक्तो धान्यविशेषो ज्ञेयः तेन तद्गुणकथनेन नेह विरोधः ॥ ५६ ॥
चक्रपाणिः -- कोरदूपादयः कुधान्यविशेषाः, कोरदूपः कोद्रवः, कोरदूपस्य केवलस्य श्लेष्मपित्तघ्नत्वं तेन, यदुक्तं रक्तपित्तनिदाने- "यदा जन्तुर्यवकोद्दालककोरदूपप्रायान्यन्नानि भुङ्क्त" इत्यादिना पित्तकर्तृत्वम् कोरदूषस्य तत् तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम्। श्यामाकादयोऽपि तृणधान्यविशेषाः । हस्तिश्यामाकः श्यामाकभेद एव, नीवार "मुकुन्दो झिण्टिग टी चारुकवरकास्तथा" इति क्वचित् पाठान्तरं दृश्यते ।
For Private and Personal Use Only