________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्याय:
सूत्रस्थानम् । वरकोदानको चीन-शारदोदाल-*-दर्दराः। गन्धलाः कुरुविल्लाश्व + षष्टिकाल्पान्तरा गुणैः ॥ मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
बहुमूत्रपुरीषोणस्त्रिदोषस्त्वेव पाटलः ॥ ६॥ अल्पगुणः कृष्णगौरः षष्टिकः, वरक उद्दालकश्चीनः शारदोदालो दद्दुर गन्धलाः कुरुविल्वाश्चेत्येते पष्टिकाः पष्टिकनामपष्टिकस्याल्पान्तरा गुणैरल्पभेदाः। अल्परूपाः शीताः स्निग्धा गुरवः स्वादव स्त्रिदोषघ्नाः स्थिरात्मकाश्चेति । सुश्रते चोक्तं-"पष्टिककाङ्गुकमुकुन्दकपीतक-प्रमोदक-काकलकासनपुष्पक-महापष्टिकचूर्णककुरवककेदारकमभृतयः पष्टिकाः। रसे पाके च मधुराः शमना वातपित्तयोः । शालीनाञ्च गुणैस्तुल्या हणाः ककशुक्रलाः॥ पष्टिकः प्रवरस्तेषां कपायानुरसो लघुः । मृदुः स्निग्धस्त्रिदोषनः स्थैर्यकृद्ध लवर्द्धनः ॥ विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः। शेषाः स्वल्पान्तरगुणाः पष्टिकाः क्रमशो गुणैः॥ इति ।
अथ व्रीहिगुणानाह-मधुरश्चेत्यादि । व्रीहिराशुधान्यस्य संज्ञा। व्रीहिः आशुधान्यजातिमधुरश्चाम्लपाकश्च पित्तकरश्च गुरुश्च बहुमूत्रश्च बहुपुरीषश्व वहूष्मा च भवति । तत्र पाटलः पाटलवर्णो व्रीहि स्त्रिदोषकद्भवतीति। सुश्रु ने च-कृष्णवीहि-शालामुख-जतुमुख-नन्दीमुख-लावाक्षक-खरितक--कुक टाण्डकपारावतक-पाटलप्रभृतयो व्रीहयः। कपायमधुराः पाके मधुरा वीय्यतोऽहिमाः। अल्पाभिष्यन्दिनस्तुल्याः पष्टिकर्बद्धवच्चसः। कृष्णव्रीहिवेरस्तेषां कषायानुरसो लघुः। तस्मादल्पान्तरगुणाः क्रमशो ब्रीहयोऽपरे ।। इति । इह पाके मधुरा इति अम्लपाकाश्चेत्यनेन विरोधो नाशङ्काः । सश्रुतेऽम्लपाक नोक्त्वा मधुरकटुपाको गुरुलघुपाकयोः संशया तूक्तौ। तेन पृथिव्यम्बुगुणाधिक्याभिनिवृत्तिकपाको मधुरो नाम गुरुपाको न तु मधुररसे पाको मधुरपाकस्तस्मादम्ले रसे पाकस्तु भमिगुणाधिक्याभिनितिक इति न विरोध इति । एषां शालिषष्टिकतीहीणां क्षेत्रविशेषे जातानां गुणविशेषा उक्ताः सुश्रते-दग्धायामवनी जाताः शालयो. लघुपाकिनः । कपाया बदविण्मूत्रा रुक्षाः श्लेष्मापकर्षणाः ॥ स्थलजाः कफशितीये परिको लघुः पठितः ; ततोऽनु चेति गौरषष्टिकादल्पान्तरगुणः। वरकोद्दालकादयः पष्ठिकविशेषाः ; केचित् कुधान्यानि वरकादीनि वदन्ति। व्रीहिरिति शारदाशुधान्यस्य संज्ञा।
* शारदोज्ज्वलेति वा पाठः। + गन्धनाः कुरुबिन्दाश्च इति चक्रोक्तपाठः ।
For Private and Personal Use Only