________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अन्नपानविधिः
१०००
चरक-संहिता। यवका हायनाः पांशु-प्यो नैषधकादयः । शालीनां शालयः कुम्वन्त्यनुकारं गुणागुणैः ॥ ५ ॥ शीतः स्निग्धोगुरुः ® स्वादुस्त्रिदोषतः स्थिरात्मकः।
षष्टिका प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥ . पहः॥ तस्मादल्पान्तरगुणः कलमः शालयोऽपराः। इति । एतच्चाह-महांस्तस्यानु कलमस्तस्याप्यनु ततः परे। इति। रक्तशालितोऽनु अल्पान्तरगुणो महान शालिस्तस्यानु अल्पान्तरगुणः कलमस्ततः परे शकुनाहृतादयः स्तपनीयान्ताः। इह रक्तशालितोऽल्पान्तरगुणो महाशालिः, सुश्रुते कलमः कलमादनन्तरकदृमकादिभ्यः षड़भ्यः स्वल्पान्तरगुणो महाशालिरित्येवं यत्किश्चिदल्पान्तरगुणवचनभेदो नाद्रियते कुशले रिति ।। यवका इत्यादि। यवकाः शालिधान्यविशेषास्तथा हायनकाः काप्या नैषधकाप्रभृतयः शालय एव शालीनां रक्तशाल्यादीनां गुणागुणरनुकारं कुछन्ति। एते पूर्वपूर्वतो. ऽनुगुणाभावात् पृथगुक्ताः सर्वे हि शाल्यनुकारेण गुणागुणान् कुर्वन्तीति ॥५॥ ___ गङ्गाधरः-हैमन्तिकानां शूकधान्यानां गुणानुक्त्वा पष्टिकानां गुणानाह शीत इत्यादि। द्विविधं शुकधान्यं सुधान्यकुधान्यभेदात्। तत्र सुधान्यं त्रिविधं शालिषष्टिकत्रीहिभेदात्। तत्र शालिगुणानन्तरं षष्टिकजातिसामान्यादेष गुणसंग्रहः। पष्टिकः प्रवरः पष्टिकेषु मध्ये प्रवरः श्रेष्ठः षष्टिकनामा गौरः षष्टिकः । शीतश्च स्निग्धश्चागुरुश्च स्वादुश्च त्रिदोषनश्च स्थिरात्मकश्च स्थैय्यकृच्च (ग्राही च)। यः प्रवरः षष्टिकः गौरः पष्टिकः शुक्लषष्टिकः । ततोऽनु
पाकित्वे बद्धवर्चस्त्वं प्रभावादेव, महांस्तस्यान्विति रक्तशालेरनु, तेन रक्तशालिगुणात् महाशालेर्मनागल्पाः, एवं तस्यानु कलम इत्यत्रापि वाच्यम, तस्येति महाशालेः, ततः पर इति शकुनाहृतादयः, इत्युत्तरोत्तरमल्पगुणा इत्यर्थः। ___गुणागुणैरिति। शालीनां रक्तशाल्यादीनां ये गुणास्तृप्णानत्वत्रिमलापहत्वादयः, तेषामगुणैस्तदगुणविपरीतैर्दोषैः यवकादयोऽनुकारं कुर्वन्ति, ततश्च यवकास्तृष्णात्रिमलादिकरा इति स्युः ; गुणशब्दश्चेह प्रशंसायाम् ; पष्टिकगुणेऽकारप्रश्लेषादगुरुरिति बोद्धव्यम्, मात्रा
* स्निग्धोऽगुरुरिति चक्रस्तपाठान्तरम ।
For Private and Personal Use Only