________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः
सूत्रस्थानम् । सुगन्धकालोहबालाः शरीराख्याः प्रमोदकाः । पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः॥ शीता रसे विपाकेऽत्र मधुराः स्वल्पमारुताः। बद्धाल्पवर्चसः स्निग्धा वृहणाः शुक्रमूत्रलाः॥ रक्तशालिवरस्तेषां तृष्णानस्त्रिमलापहः ।
महांस्तस्यानु कलमस्तस्याप्यनु ततः परे॥ करणत्वात्। इहाभिहितानां शूकधान्यानां नामानि नानादेशप्रसिद्धानि । तानि सर्वाणि न सर्वे पुरुषा ज्ञातु प्रभवन्ति । तस्माद देशान्तरतो नामानि प्रायशोऽनुसन्धाय कुशलः ज्ञातव्यानि भवन्ति । रक्तशालेः शुकधान्येषु श्रेष्ठलात पूर्वमुपादानं, रक्तशालिः प्रसिद्धो रक्तवणो हैमन्तिको धान्यविशषः। महाशालिमेगधदेशे प्रसिद्धो हैमन्तिकः, कलमो गौड़दशे प्रसिद्धः। शकुनाहृतः श्रावन्तीदेशे प्रसिद्धः। एवं शेषाः ज्ञातव्याः। ये चान्ये शालयः शुभा इति हैमन्तिका येऽन्ये शुभाः शुकधान्यविशेषाः, कद्दमकपाडुकपुष्पाण्डकपुण्डरीकशीतभीरुकलोध्रपुष्पककाञ्चनकमहिपमस्तकहायनकदूषकमहादूषकप्रभृतयः।
एषां सामान्यतो गुणकाण्याह-शीता इत्यादि । एते रक्तशाल्यादयः सचे वीव्येण शीताः रसे पाके च मधुरास्तस्मात् पित्तघ्नाः स्निग्धा हणाः शुक्रमूत्रलाः सन्तोऽपि स्वल्पमारुता वद्धाल्पवच्चेसश्च प्रभावात् । सुश्रुते तु लोहितशालीत्यारभ्य महादूषकप्रभृतयः शालयः,-मधुरा वीय्यतः शीता लघुपाका बलावहाः। पित्तनाल्पानिलकफाः स्निग्धा बद्धाल्पवच्चेसः । इति । अत्र लघुपाका इति न कटुकपाकाः किन्तु येऽन्ये मधुररसा यथा गुरुपाका न तथैते रक्तशाल्यादयो गुरुपाकास्ततो लघुपाका इत्यभिप्रायेणोक्ताः । तत्र विशेषणाह-रक्तशालि. रित्यादि। तेषां रत्तशालि-महाशालिप्रभृतीनां मध्ये रक्तशालिवेरः श्रेष्ठस्तत्त. कम्मेकरणे प्राधान्यं करोति एवं तृष्णानः। त्रिमलापह इति स्वल्पमारुता इत्युपसर्गस्यापवादः । सुश्र ते च--"तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः। चक्षुष्यो वर्णवलकृत् स्वय्र्यो हृद्यः श्रमापहः । ब्रण्यो ज्वरहरश्चैव सव्वेदोषविषातल्लेखिष्यामः, अन्यदेशप्रसिद्धञ्च किञ्चित् ; कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः, शकुनाहतः भवनस्यां वक्रनाम्ना प्रसिद्धः, रक्तशालिः प्रसिद्ध एव, महाशालिमंगधे प्रसिद्धः ; अत्र शालि. हैंमन्तं धान्यम, पष्ठिकादयश्च प्रैष्मिकाः, बीहयः शारदा इति व्यवस्था ; रक्त शाल्यादीनां मधर
For Private and Personal Use Only