________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। [अन्नपानविधिः परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः ;
शूकधान्यशमीधान्य-मांसशाककलाश्रयान्। वर्गान् हरितमद्याम्बु-गोरसेक्षुविकारकान् ॥ दश द्वौ चापरौ वगौ कृतान्नाहारयोगिणम् । रसवीर्यावपाकैश्च प्रभावश्चोपदेच्यते ॥४॥ रक्तशालिमहाशालिः कलमः शकुनाहृतः।
चूर्णको * दीर्घशूकश्च गौरः पाण्डुकलाङ्गलौ ॥ कर्फ न वद्धयतीति। केचिदत्राम्लमधुरकटुकानि पठन्ति न तिक्तकषायलवणानि ॥३॥
गङ्गाधरः-इत्येतत् किञ्चित् साधारण्येनान्नपानविधावुपदिश्यातः पर यदुपढेक्ष्यति तत् प्रतिजानीते-परमत इत्यादि । वर्गतः संग्रहेण संक्षेपेणाहारद्रव्याण्यतः परमुपदेश्याम इति प्रतिज्ञा। तत्र वर्गान निद्दिशति-शूकेत्यादि । शूकधान्यवगेश्च शमीधान्यवर्गश्च मांसवर्गश्च शाकवगेश्च फलवगेश्च हरितवगेश्व मद्यवगेश्वाम्बुवगेश्च गोरसवगेश्च गोरस विकारवगेश्च इक्षवगेश्च इक्षुविकारवर्गश्व इति दश वर्गा अपरौ च द्वौ वगौ कृतान्नाहारयोगिणां कृतान्नवर्गश्चाहारयोगिवगेश्चेति द्वादशवर्ग रसवीय्य विपाकप्रभावैरुपदेक्ष्यते। इति ॥४॥
गङ्गाधरः-तत्र क्रमेण शुकधान्यवर्गादीनुपदिशति-रक्तशालिरित्यादि । अत्राहारविधौ शुकवतां धान्यानां प्राधान्यादादावुपदेशः कृतः, शेषाणां तदुपकथनमेतत्, त्रयेणैवानुक्तानां लवणतिक्तकषायाणामपि पाकद्वारा ग्रहणात्, यतः, लवणः पाकात् प्रायो मधुरः, तिक्तकपायौ कटुको पाकतो भवतः। 'प्रायः सर्व तिक्तम्' इत्यादिस्तु ग्रन्थो हारीतीयः, इह केनापि प्रमादाल्लिखितः ॥३॥ . चक्रपाणिः-वर्गेण शूकधान्यादीनां संग्रह आहारद्रव्याणां वर्गसंग्रहः । रसवीर्येत्यादी प्रभावोऽल्पविषयतया पृथक् पठितः, रसादिनिर्देशश्च यथायोग्यतया ज्ञयः, तेन, न सर्व्वद्रव्ये सर्वरसायभिधानं भविष्यति ; अन्न शूकधान्यमादावाहारप्रधानत्वात् । शूकवन्ति धान्यानि शूकधान्यानि ॥४॥
चक्रपाणिः-इह च द्रव्यनामानि नानादेशप्रसिद्धानि। तेन नामज्ञाने सामर्थ्य तथाभूतं नास्त्येवान्येषामपि टीकाकृताम, तेन देशान्तरेयो नाम प्रायशो ज्ञेयम्, यत्तु प्रचरति गौड़े,
* चूर्णक इत्यत्र तूर्णकस्तथा शरीराख्या इत्यत्र शारिराख्या इति पाठश्चक्रसम्मतः ।
For Private and Personal Use Only