________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ]
सूत्रस्थानम् ।
६६७
प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाद यवगोधूमाच्च, प्रायस्तिक्तकं वातलमवृष्यञ्च अन्यत्र वेत्राग्रपटोलपत्रात्, प्रायः कटुकं वातलमवृष्यञ्च अन्यत्र पिप्पलीविश्वभेषजात्, प्रायः कषायं वातलमवृष्यं स्तम्भनं शीतञ्चान्यत्र हरीतक्याः, प्रायो लवणं श्लेष्मलमवृष्यञ्चान्यत्र सैन्धवात् ॥ ३ ॥
शीतं स्वभावः । रसविपाकावपोह्य पित्तं शमयति न पित्तं वर्द्धयति । प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाद् यवगोधूमात् तत्स्वभावात् । प्रायो मधुरं द्रव्य श्लेष्मलं तत्स्वभावात् । रसे हि मधुरं पाके च मधुरं वीर्ये च शीतम् । तत्र मधु हुप्णवीय्येण मधुररसविपाकावपोह्य श्लेष्माणं शमयति । पुराणश्च वो गोधूमच न हिमः, नवस्य हिमवात् । विपाके च कटुस्तस्मान श्लेष्मलः । प्रायस्तिक्तं वातलमवृष्यञ्चान्यत्र वेताग्रपटोलपत्रात् । तिक्तद्रव्यं प्रायो वातलम् अनुष्यञ्च रसे तिक्तत्वात् पाके कटुखात् वीय्ये शीतत्वात् । वेत्राग्र' पटोलपत्रश्च न वातलं नानुष्यं पाके हि मधुरं रसमपोह्य वातं शमयति वृष्यञ्च भवति । शीतं वीय्र्यञ्च पित्तं शमयति वृषस्यति च । प्रायः कटुकं वातलमवृष्यञ्चान्यत्र पिप्पलीविश्वभेषजात् । कटुकं द्रव्यं मरिचादिकं प्रायो वातलमवृष्यञ्च रसे पाके कटुवाद्वी चोणखात् । पिप्पली विश्वभेषजञ्च मधुरपाकाच्छीतवीर्याच्च कटुरसमपोद्य न वातं वर्द्धयति नादृष्यत्वञ्च करोति । प्रायः कषायं वातलम् अवृष्यं स्तम्भनं शीतश्चान्यत्र हरीतक्याः । कषायद्रव्यं प्रायो वातलमवृष्यं स्तम्भनं शीतञ्च । कटुपाकात् वातलमवृष्यं स्तम्भनञ्च शीतवीर्यादल्पवृष्यम् । हरीतकी तूष्णवीर्य्यात् प्रभावाच्च न स्तभ्मनी वृष्या च । प्रायो लवणं इलेष्मलम् अवृष्यञ्चान्यत्र सैन्धवादिति सेन्धवं हि नोष्णं पित्तं शमयति हृष्यञ्च प्रभावात् एतदभिधानम् ; क्षारस्य पाचनत्वगुणोऽभिहितः, इह तु 'दृष्टिशुक्रमत्व' - दोष इति पृथगुच्यते । प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम् एवमन्यत्रापि 'प्रायः 'शब्दो विशेषार्थो वाच्यः, किंवा, 'प्रायः' शब्दोऽग्लेन सम्बध्यते; अत्र पित्तमादावम्लजन्य तयोक्त' दोषप्राधान्यस्यानियतत्वाद्, उक्त हि-न ते पृथक् पित्तकफानिलेभ्यः” इति, तथा, "समपित्तकफानिलाः” इति, किंवा पित्तोमा वह्निः स चेहान्नपानपचने प्रधानम्, यदुक्तम् - "यदन्न देहधात्वोजोबलवर्णादिपोषकम् । तत्राग्निर्हेतुराहारान् न ह्यपक्का रसादयः ॥” इति तेनेह वह्निकारण पित्तजनक मेवादादुच्यते, यतश्च पित्तजनकमग्र े वक्तव्यम्, अतो रसप्रधानमपि मधुरो नादौ उक्तः ; मधुन इति विच्छेदपाटेन नवानवस्य मधुनः क.फाकतृत्वं दर्शयति ; इह च षड्रसस्यैव
;
;
For Private and Personal Use Only