________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
९६६ चरक-संहिता।
( अन्नपानविधिः धमति, द्राक्षासवो दीपति, फाणितमाचिनोति, दधि शोफं जनयति, पिण्याको * ग्लपयति, प्रभूतान्तर्मलस्तु माषसूपः, दृष्टिशुक्रतः क्षारः, प्रायः पित्तलमम्लमन्यत्र दाडिमामलकात्, वृहि ध्वनिवृद्धयोरिति-मांसं वृहत् प्रेरयति। रसो मांसस्य रसः प्रीणयति तत्स्वभावात् । प्रीत्र तपेणे। तपयति तृप्तिं जनयति। सुरा जज्जेरीकरोति तत्स्वभावात्। शरीरशैथिल्यं करोति रक्तमेदोबाहुल्यात्। तदुक्तं हारीतेन-सुरा जज्जरकरोत्यमृङमेदो बाहुल्यात् । सीधुरवधति तत्स्वभावात् अवधमति विलिखति शरीरं धातूनामनेकार्थखात् । सीधुरवधमति व्याह्याग्निप्रबोधनादिति हारीत उवाच। द्राक्षासवो दीपयति ततस्वभावादग्निं प्रज्वलयति। फाणितमाचिनोति तत्स्वभावादोषाणामाचितिं करोति । दधि शोफ जनयति तत्वभावात्, दोषजं शोफम्। पिण्याको ग्लपयति तत् स्वभावात्, तिलकल्कः हर्षक्षयं करोति। प्रभूतान्तम्मेलो माषपस्त तस्वभावात् । प्रभूतो बहुलोऽन्तम्मेलः पुरीपं भवति यस्मात्, स तथा माषसूपः। माषो बहुमल इति माविकारसामान्यस्य बहुमलकरखात् तदेकस्य विकारस्य सूपस्यापि पुनरिहानुवादः। दृष्टिशुक्रनः क्षारस्तत्स्वभावात्। पाचकवं कम्मे प्रागुक्तम् अन्त वाह्यप्रयोगाभिप्रायेणेह पुनर्विपाके दृष्टिशुक्रहन्तवमुक्तम् । प्रायः पित्तलम्
म्लमन्यत्र दाडिमामलकात् तत्स्वभावात्। प्रायोऽम्लं द्रव्यं पित्तलं तत्स्वभावात् । पाके रसे वीट्ये चाम्लोष्णवात् । दाडिमामलकन्तु वीय्येण त्वङमांसादीनि संश्लेषयति ; रसो मांसरसः, प्रीणयतीति क्षीणान् पुष्णाति न त्वतिवृद्धं करोति, तेन मांसकर्मणा बृहणेन समं नैक्यम् ; जर्जरीकरोति इलथमांसाद्य पचयं करोति, यदुक्तम् हारीते- "सुरा जर्जरीकरोत्यसृङ्मेदो बाहुल्याद्” इति, तथाह्यत्रैवोक्तम्- "सुरा कृशादीनां पुष्टयर्थम्" इति ; अवधमयतीति विलिखतीत्यर्थः, अनेकार्थत्वाद्धातूनाम्, वचनं हि---"लेखनः शीतरसिकः” इति, तथा हारीतेऽप्युक्त-"शीधुरवधमयति वास्वग्निप्रबोधनाद" इति । आचिनोति दोषानिति शेषः, तत्रान्तरवचनं हि-“वातपित्तकफांस्तस्मादाचिनोति च फाणितम्" इति ; पिण्याकस्तिलकल्का, निघण्टुकारस्त्वाह-"पिण्याको हरितशिन'; ग्लपयति हर्षक्षयं करोति ; प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः, यद्यपि "मापो बहुमलः" इति वक्ष्यति, तथापि माषविकृतेः सूपस्येह गुणकथनम्, तेन न पुनरुक्तम् ;-न चावश्यं प्रकृतिधर्मो विकृतिम् अनुगच्छति, यतः शक्त नां सिद्धपिण्डिका गुरवः स्युः ; तस्मान्माषविकृतावपि मलवृद्धिदर्शनार्थम् * पिण्याक इत्यत्र पिण्याकशाकमिति क्वचित् ।
REEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only