________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः ]
हपू
सूत्रस्थानम् । तत्स्वभावादुदकं क्लेदयति, लवणं विप्यन्दयति, चारः पाचयति, मधु सन्दधाति सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं हयति, रसः प्रीणयति, सुरा जर्जरीकरोति, सीधुरवगङ्गाधरः -- तथान्नपानयोः साधारणयोर्गुणकर्माण्यभिधाय तदुपयोग प्राधान्यात् गुणकर्मभिद्रव्याण्युपदिश्यन्ते - तदित्यादि । तत्स्वभावादिति वक्ष्यमाणानामिहोदकादीनां यदयत् कर्म वक्ष्यते तत्तत्कर्मकृदेव स्वभावः । स्वस्वतत्स्वभावात् । तथाच उदकं यत् क्लेदयति तत्तत्क्लेदकृदद्रव्यत्वस्वभावात् । इहान्नपानप्रकरणात् उदकस्यान्नपानसाधन यत् कम्र्म्मणः प्राधान्यं तदुपदेशेन श्रष्ठतमोपदेशे यदुक्तम् उदकमाश्वासकराणां जलं स्तम्भनानामिति तन्न व्याहन्यते । यदि चान्नसाधने वह ेरपि प्राधान्यमुदकवत् तुल्यं तथाप्याहारे वह्ने रुपयोगाभावादुदकस्याभ्यवहृतानामपि क्लेदकत्वादादावुपदेशः । क्लेदोऽवयवसंयोगकाठिन्यविनाशजन्यद्रवीभावस्तज्जनकव्यापार उदकस्येति । लवणं द्रव्यं विष्यन्दयति तत्स्वभावात् स्रावयति स्रावजनकव्यापारो लवणस्य सन्धवादेरिति अन्नोपकरणव्यञ्जनद्रव्यसाधनोपयोगित्वेनोदकादप्राधान्यं लवणस्य | क्षारः पाचयतीति । क्षारो भस्मीभूतद्रव्यकृतविकारविशेषो यवक्षारादिः यकिञ्चित् पचन्तम् उष्माणं प्रेरयति तत्स्वभावात् । सैन्धवादिभ्योऽप्राधान्यात् तदनुवचन कचिदुपयोगात् । मधु सन्दधाति संश्लेषं करोति तत्स्वभावात् मधु चाहारोपयोगितयै वेहोक्तम् । सर्पिः स्नेहयति तत्स्वभावात् - दैवादिक वि ष्णिह ऌ प्रीतिस्नेहनयोः । प्रयोजके णिच् । सर्पिषोऽप्युपकरणं व्यञ्जनादिसंस्कारत्वेन वचनम् । क्षीरं जीवयति तत्स्वभावात् । आयुर्जीवनं तत् करोति । शरीरेन्द्रियसत्त्वात्मसंयोगं द्रढयति । मांसं दृहयति तत्स्वभावात् । भौवादिको
चक्रपाणिः - अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते, तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति ; उदकाभिधानञ्चाग्रे कृतमुदकस्यान्ने पाने च व्याप्रियमाणत्वात् ; तदित्युदाहरणम्, किंवा, स स्वभावो यस्य स तत्स्वभावस्तस्मात् क्लेदनस्वभावादित्यर्थः ; यद्यपि "उदकमाश्वासकराणाम्" "जलं स्तम्भनानाम्' इत्युक्त, तथापि इहानुक्तक्लेदकर्म्माद्यभिधानार्थं पुनरुच्यते ; इह जललवणादीनां यत् कम्र्म्मोच्यते तत्तेषामितरकर्म्मभ्यः प्रधानं ज्ञेयम्, अग्राधिकारे तु तत्कर्म्मक स्वद्रव्यान्तरप्रशस्तता ज्ञेया । क्षारः पचन्तमग्निं प्रेरयति, तेन पाचय तीति हेतौ णिच्; स्नेहयतीत्यादौ तु " तत् करोति तदाचष्टे " इति णिच्; सन्दधातीति विश्लिष्टानि
For Private and Personal Use Only