________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द६४
चरक-संहिता। [ अक्षपानविधिः धातुव्यूहबलवणेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय सम्पद्यते। तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेच्यामोऽग्निवेश ॥२॥ तथा। उक्तं हि "बलमारोग्यमायुश्च प्राणाश्चानौ प्रतिष्ठिताः" इति, एतेन तथाविधान्नपानयोः प्राणहेतुखवदन्तरग्निस्थितिहेतुलं शापितं भवति। तयोः कान्तरमाह--तदित्यादि। येन यथोक्तमुपसेव्यमानमन्नपानं तत्सत्त्वं तस्य मन ऊज्जयति बलवत् करोति, चौरादिक उज्जे बलजीवनयोरिति । कर्मान्तरमाह-तच्छरीरेत्यादि। तदन्नपानं येन पुंसा यथोक्तमुपसेव्यते तस्य तदन्नपानं शरीरधातुव्यूहबलादिकरं शरीरस्य धातवो रसरक्तादयस्तेषां व्यूहं संघातं बलश्च वणेञ्च इन्द्रियप्रसादच करोति । विपरीतं यथोक्तविधिविपर्ययेणोपसेव्यमानमन्नपानमहिताय प्राणाग्निस्थितिसत्त्ववलशरीरधातुव्यूहबलवणेन्द्रियप्रसादानां विपय्येयाय सम्पद्यते। तस्माद्धेतोहिताहितानामवबोधार्थम् अन्नपानयोविधि विधायकमत्यन्ताप्राप्तस्योपयोगप्रकारस्य प्रापकं नियोगमुपदेक्ष्याम इति व्याचष्टे कश्चित् तन्न। विधिवत्र प्रकारवचनो न विधायकवचनः । तस्मादखिलेनानपानप्रकारमुपदेक्ष्यामोऽनिवेशेति। यद्यप्यत्र वक्ष्यते अन्न पानकदेशोऽयमुक्तः प्रायोपयोगिकः इति तथाप्यनुक्तानां द्रव्यगुणकम्मेणामुपसंहारवचनेन निखिलेनोपदेशो नानुपपन्नः ॥२॥
आह 'तदिन्धना' इत्यादिना ; अग्निहेतुश्च प्राणहेतुः, ततोऽन्नं प्राणा इति भावः, उक्त हि"बलमारोग्यमायुश्व प्राणाश्चाग्नौ प्रतिष्टिताः” ; किंवा पूर्द्धमन्नपानस्य प्राणहेतुत्वमुक्तम् , 'तदिन्धना हिं' इत्यादिनाग्निहेतुत्वं वर्ण्यते ; सत्त्वमूर्जयतीति मनोबलं करोति ; धातुप्यूहो धातुसङ्घातः ; विपरीतम् अविधिस्थितम् । अन्नपानं विधीयते येन ज्ञानेन तं विधि द्रव्यगुणकर्मरूपम्, तथा, चरशरीरावयवादिरूपञ्चाखिलेन कार्ने वनोपदेक्ष्यामः यद्यपि चेह द्रव्य प्रतिप्रतिगुणकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि-"अन्नपानकदेशोऽयमुक्तः प्रायोपयोगिक" इति, तथाप्यनुक्तानां द्रव्याणामपि चरशरीरावयवाद्यपदेशेन, तथा पूर्वाध्यायोक्तपार्थिवादि. द्रव्यगुणकथनेन च तद्विधानामप्युक्त स्थादित्यत उक्तम्---'अखिलेन' इति, वक्ष्यति हि-“यथा नानौषधं किञ्चिदेशजानां वचो यथा। द्रव्यन्तु तत्तथा वाच्यमनुक्तमिह यद् भवेत् ॥” तथा, "चरः शरीरावयवः” इत्यादि ; किंवा, विधिशब्दोऽशितपीतलीढखादितप्रकारवाची, तेन चाशितादय: सर्व एवाखिलेन वाच्याः, तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि, भतो वक्ष्यति-"अन्नपानकदेशोऽयमुक्तः" इति ॥ २ ॥
For Private and Personal Use Only